पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू° १४०.]३१३ षष्ठं काण्डम् । ए॒वा काम॑स्य विच्छिन्नं सं धेहि वीर्यावति ॥ ५ ॥ यथा॑ । न॒कुलः । वि॒ऽछिद्य॑ । स॒म॒ऽदधा॑ति । अहि॑म् । पुनः । ए॒व । काम॑स्य । विऽधि॑न्नम्। सम् । धे॒हि॒ । वी॒र्य॑ऽव॒ति॒ ॥ ५ ॥ नास्य कुलम् अस्तीति नकुलः प्राणी । छु “नभ्राण्नपात् इत्यादिना नञः प्रकृतिभावःX । स यथा अहिम् सर्प विच्छिद्य खण्डयित्वा पुन: संदधाति संयोजयति एव एवम् हे वीर्यावति अतिश यितवीर्ययुक्ते ओषधे कामस्य विच्छिन्नम् स्त्रिया: पराङ्मुखत्वेन कामकृत- विकारेण अवखण्डितं मां सं धेहि पुनः संयोजय ॥ षष्ठी ॥ यौ व्याघ्रावव॑रूढौ जिध॑त्सतः पि॒तरै मा॒तरं॑ च । तो दन्तौ ब्रह्मणस्पते शिवौ कृ॑णु जातवेदः ॥ १ ॥ यौ । व्या॒घ्रौ । अव॑ऽरूढौ । जिध॑त्सतः । पि॒तर॑म् । मा॒तर॑म् । च । तौ । दन्तो॑ । ब्र॒ह्म॒णः॑ । पते॒ । शिवौ । कृणु । जात॒ऽवे॒द॒ः ॥ १ ॥ । २९५ 0 " 66 व्यायी व्याघवत हिंसको यो दन्तो उपरितनपङ्किस्यौ अवरूढौ अवा- ड्युखं प्ररूढौ प्रथमत उत्पन्नौ पितरं मातरं च जिघत्सतः अतुं भक्ष- यितुम् इच्छतः । * अद भक्षणे । 'लुङ्सनोर्घस्ल" इति घस्ऌ आदेशः । 'स[स्यार्ध] धातुके” इति तत्वम् । हे ब्रह्मणस्पते म- न्त्रस्याधिपते हे जातवेदः जातानां वेदितरने तौ तथाविधौ दन्तौ शि- वौ सुखकरौ मातापित्रोरहिंसकौ कृणु कुरु ॥ सप्तमी ॥ व्रीहिम॑त्तं यव॑मत्तमयो माषमथो तिल॑म् । ए॒ष व भागो निहि॑तो रत्न॒धेया॑य दन्तो॒ मा हिँसिष्टं पि॒तरं॑ मा॒तरं च ॥ २ ॥ व्र॒हम् । अत्त॒म् । यव॑म् । अत्तम् । अथो॒ इति॑ । माष॑म् । अथो इति। तिल॑म् ।