पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ अथर्वसंहिताभाष्ये ए॒षः । वाम् । भागः । निऽहि॑ितः । र॒ऽधेया॑य । द॒ौ । मा । हिंस- ष्टम् । पि॒तर॑म् | मा॒तर॑म् । च ॥ २ ॥ Bpk हे प्रथमोत्पन्नौ उपरितनदन्तौ व्रीहिम् अत्तम् भक्षयतं तथा यवम् अत्तम भक्षयतम् । अथो अपि च भाषम अत्तम् । अथो अपि च तिलम् अत्तम् । हे दन्तौ रत्नधेयाय रमणीयफलाय वाम युवयोः एषः व्रीहियवादिलक्षणो भागो निहितः निक्षिप्तः । तेन तृप्तौ युवाम् अस्य शिशोः पितरं मातरं च मा हिंसिष्टम् मा वधिष्टम् ॥ अष्टमी ॥ उपहूतौ सयुजौ स्योनौ दन्त सुमङ्गल । अ॒न्यत्र॑ वां घोरं त॒न्व॑ती॒ परि॑तु दन्तौ मा हिंसिष्टं पितरं मातरै च ॥ ३ ॥ उप॑ऽहूतौ । स॒ऽयुज । स्य॒ोनौ । दन्तो॑ । सु॒ऽम॒ङ्गल । अन्यत्र॑ । वा॒म् । घृ॒रम् । त॒न्वः । परा॑ । ए॒तु॒ । द॒न्तौ । मा। हंसिष्टम् । पि॒तर॑म् । मा॒तर॑म् | च ॥ ३ ॥ उपहूतौ समीपम आहूतौ देवेन अनुज्ञातौ वा सयुजौ समान यु जानौ मित्रभूतौ स्योनौ सुखकरौ सुमङ्गलौ सुशोभनौ एवंगुणविशिष्टौ तौ दन्तौ भवताम् । हे दन्तौ वाम युवयोः घोरम क्रूरं कर्म मातापि तूहननलक्षणम् अन्यत्र अन्यस्मिन् देशे तन्वः शिशुशरीरात परैतु परा- गच्छतु । गतम् अन्यत् ॥ 46 [ इति ] त्रयोदशेनुवाके अष्टमं सूक्तम् ॥ वायुरेना: " इति तृचेन पुष्ट्यर्थचित्राकर्मणि वृक्षशाखादिसंभारान् सं- पातयेत् ॥ तत्रैव कर्मणि "वायुरेनाः " इति ॠचा प्रभाते उदकधारोपेतया शा- खया गां परिकामेत् ॥ १ AVवा३. R न्या. BS . We with DK K. 1S' अस्मिन.