पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९७ [अ० १३. सू°१४१.]३१४ षष्ठं काण्डम् । तत्रैव कर्मणि "लोहितेन स्वधितिना” इति मन्त्रेण सूत्रोक्तरीत्या व त्सकर्ण छिन्द्यात् ॥ तत्रैव कर्मणि ८८ यथा चक्रुः” इति ऋचा कर्णलोहितं दधिमधुघृतो- दकतं कृत्वा संपात्य अभिमन्त्र्य वत्सं प्राशयेत् ॥ आह च कौशिकः । 66 वायुरेना इति युक्तयोश्चित्राकर्मनिशायां संभा- 'रान् संपातवतः करोति । अपरेधुर्वायुरेना इति शाखयोदकधारया गाः “परिकामति । प्रथमजस्य शकलम् अवधायौदुम्बरेणासिना लोहितेनेति “ मन्त्रोक्तम् । यथा चकुरितीक्षुकाशकाण्ड्या लोहितं निर्मृज्यं रसमिश्रम् “ अनाति । सर्वम् औदुम्बरम्” इति [ कौ० ३. ६ ] ॥ " उच्छ्रयस्व” इति तृचेन पुष्ट्यर्थबीजवापनकर्मणि ब्रीह्यादिबीजम् आं- ज्य कृत्वा अभिमन्य प्रत्यूचं तिस्रो मुष्टीर्लाङ्गलपडतो निधाय पांसु- · भिराच्छादयेत् । तद् उक्तं कौशिकेन । 'उच्छ्रयस्वेति बीजोपहरणम् । “आज्यमित्रान् यवान् उर्वरायां कृष्टे फालेन उदुह्य अन्वृचं काशीन “निनयति निवपति इति [ कौ॰३.७] ॥ तत्र प्रथमा ॥ वा॒युरैनाः स॒माक॑र॒त त्वष्टा॒ पोषा॑य भ्रियताम् । इन्द्र॑ आभ्यो॒ अधि॑ ब्रवद् रु॒द्रो भूम्ने चिकित्सतु ॥ १ ॥ वा॒युः । ए॒नाः । स॒मुऽआक॑रत् | त्वष्टा॑ । पोषा॑य । धि॒यताम् । इन्द्र॑ । आ॒भ्यः॒ । अधि॑ । व्र॒वत् । रु॒द्रः । भूम्ने । चिकित्सतु ॥ १ ॥ एनाः अस्मदीया गा; वायुर्देवः समाकरत समाकरोतु संघश आन- यतु । वायुर्हि तेषां रक्षिता । तथा च तैत्तिरीयकम् । 'वायव स्थेत्या- “ह । वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः । 'वायव एवैनान परिददाति" इति [ तै० ब्रा० ३.२.१.३] ॥ तथा त्वष्टा देवः पोषाय अभिवृद्धये इमा गाः प्रियताम् धारयतु । स एव हि प शूनाम् अभिवृद्धेः कर्ता । “त्वष्टा वै पशूनां मिथुनानां रूपकृत्” इति 1S' 'तीक्ष" 2S´ निसृज्य. 3S' 'रायाकृ'.