पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये २९ श्रुतेः [तै० सं० १. ७.४५] धृङ् अवस्थाने । तुदादित्वात् शः | आभ्यो गोभ्यः इ- 66 'रिङ् शयग्लिङ्ञ्जु " इति रिङ् आदेश: 1 न्द्रो देवानाम अधिपतिः अधि ब्रवत् अधिववीतु आधिक्यं वदतु । रु- द्रः पशूनाम् अभिमन्ता पीडाकरो देवः भूम्ने बहुवाय चिकित्सतु | पा- दास्यादिरोगपरिहारेण बह्वीः करोतु इत्यर्थः । * भूम्न इति । ब- हुशब्दाद् इमनिचि “बहोर्लोपो भू च बहोः” इति इमनिच आदिव- र्णलोपो बहोर्भूभावश्च । चिकित्सनु । कित ज्ञाने । “गुप्तिजकिद्भ्यः सन्” इति व्याधिप्रतीकारलक्षणेथें कितेः सन् प्रत्ययः ॥ द्वितीया ॥ लोहि॑तेन॒ स्वधि॑तिना मिथुनं कर्णयोः कृधि । अक॑र्ताम॒श्विना॒ा लक्ष्म॒ तद॑स्तु प्र॒जया॑ ब॒हु ॥ २ ॥ लोहि॑तेन । स्वऽधि॑तिना । मि॒थुनम् । कर्णेयोः । कृ॒ध । अक॑र्ताम् । अ॒श्विना॑ । लक्ष्म॑ । तत् । अस्तु । प्र॒ऽजया॑ । ब॒हुं ॥ २ ॥ । क- हे गोपाल लोहितेन लोहितवर्णेन ताम्रविकारेण स्वधितिना शस्त्रेण कर्णयोः वत्ससंबन्धिनोः मिथुनम स्त्रीपुंसात्मकम् चिहं कृधि कुरु । अश्वि ना अश्विन देव तादृशं लक्ष्म चिह्नम् अकर्ताम् कुरुताम् । रोतेश्छान्दसो लुङ् । “बहुलं छन्दसि” इति विकरणस्य लुक् । तथाविधं लक्ष्म मजया पुत्रपौत्रादिरूपया बहु बहुलं समृद्धम् अस्तु ॥ तृतीया || तत् यथा॑ च॒क्रुर्दैवासुरा यथा॑ मनुष्या उ॒त । ए॒वा स॑हस्रप॒ोषाय॑ कृणुतं लक्ष्मा॑श्विना ॥ ३ ॥ यथा॑ । च॒क्रुः । दे॒व॒ऽअ॒सुराः । यथा॑ । म॑नु॒ष्यः । उ॒त । ए॒व । स॒ह॒स्रा॒ऽप॒षाय॑ । कृ॒णु॒तम् । लक्ष्म॑ । अ॒श्वा॒ना ॥ ३ ॥ 1 P वह. • B देवरा Sदेवसुग. We with ABDKKRPPJVC-C.. I S' arexit.