पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १३. सू°१४२.]३१५ षष्ठं काण्डम् । २९९ देवाश्च असुराश्च देवासुराः । ते यथा पशूनां लक्ष्म लक्षणं कर्णयोः स्वधितिना चक्रुः कृतवन्तः । मनुष्या उत मानवा अपि यथा चक्रुः कृ- तवन्त: हे अश्विना अश्विनौ एव एवं सहस्रपोषाय गवाम् अपरिमिता- भिवृद्धये लक्ष्म चिह्नं कृणुतम् कुरुतम् ॥ चतुर्थी ॥ उच्छ्रयस्व ब॒हुभ॑व॒ स्वेन महंसा यव । मृ॒णी॒ीहि विवा॒ पात्रा॑णि॒ मा त्वा॑ दि॒व्याशनि॑र्वधीत् ॥ १ ॥ उत् । श्रयस्व॒ । ब॒हुः । भ॒व॒ । स्वेन॑ । मह॑सा । यव मृ॒णी॒हि । विश्वा॑ । पात्रा॑णि । मा। त्वा॒ । दि॒व्या । अ॒शनि॑ः । व॒धी॒त् ॥ १ ॥ हे यव धान्य त्वम् उच्छ्रयस्व उत्तिष्ठ प्ररूढः सन् उन्नतो भव । तथा बहु: अनेकविधो भव । स्वेन आत्मीयेन महसा तेजसा रसवीर्येण सह विश्वा विश्वानि सर्वाणि पात्राणि कुंसूलकोष्ठागारादीनि वृणीहि व- र्णव्यत्ययः । पृणीहि पूरय | दिव्या दिवि भवा अशनिः त्वा त्वां मा वधीत् मा हिंसीत् ॥ पञ्चमी ॥ आ॒शृ॒ण्वन्तं॒ यव॑ दे॒वं यत्र॑ च्छ्रदा॑मसि । तदुच्छ॑स्व॒ द्यौरि॑व समुद्र इ॑वे॒ध्यक्षतः ॥ २ ॥

॥ २ ॥

आ॒ऽशृ॒ण्वन्त॑म् । यव॑म् । दे॒वम् । यत्र॑ । त्वा॒ । अ॒च्छ॒ऽआ॒वदा॑मसि । तत् । उत् । श्रूय॒स्व॒ । द्यौःऽइ॑व । स॒मु॒द्रःऽइ॑व । ए॒धि॒ । अक्षि॑तः ॥ २ ॥ आशृण्वन्तम् आभिमुख्येन अस्मदुक्तम् आकर्णयन्तं यवम् यवधान्यरू- पेण अवस्थितं देवं तंत्र तस्यां भूमौ वा त्वाम् अवदामसि आभिमु ख्येन वदामः प्रार्थयामहे । तत् तत्र भूम्यां द्यौरिव आकाश इव उ- च्छ्रयस्व उन्नतो भव । सस्यावस्थायाम् उक्तम् । फलावस्थायामपि आ ह । समुद्र इव अक्षितः अक्षीणः क्षयरहितः एधि भव । 1S' गुसूल'.