पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० अथर्वसंहिताभाष्ये • तस्य स्तेर्लोटि सिपो हिरादेशः । नसोरल्लोपे “ध्वसोरेडौ” इति एत्त्वम् । 'असिद्धवद् अत्रा भात्" इति असिद्धत्वात् झलन्तलक्षणं हेधिं- लम् । अक्षित इति । क्षि क्षये । 'निष्ठायाम् अण्यदर्थे” इति पर्युद- स्तत्वाद् दीर्घाभावात् “क्षियो दीर्घात्" इति नत्वस्यापि अभावः ४ ॥ षष्ठी ॥ ८८ 66 66 अक्षितास्त उपसदोक्षिताः सन्तु रा॒शय॑: । पृ॒णन्तो अक्षताः सन्त्व॒त्तार॑ स॒न्त्वक्षि॑ताः ॥ ३ ॥ अक्षताः । ते॒ । उ॒प॒ऽसद॑ः । अक्षिताः । स॒न्तु॒ । रा॒शय॑ः । पृ॒णन्त॑ः । अक्षिताः । स॒न्तु । अ॒तार॑ । स॒न्तु । अक्षिताः ॥ ३ ॥ हे यव ते तव उपसद: उपसत्तार: उपगन्तारः कर्मकरा अक्षिताः क्षयरहिताः सन्तु भवन्तु । राशयः धान्यसमूहा अक्षिताः क्षयरहिताः [सन्तु] भवन्तु । पृणन्त: गृहादिकं पूरयन्त: समाहर्तारो जना अक्षिताः क्षयरहिताः सन्तु भवन्तु । अतारः भोक्तारो जना अक्षिताः क्षयरहिताः [ सन्तु] भवन्तु ॥ [ इति ] पष्ठकाण्डे त्रयोदशेनुवाके नवमं सूक्तम् ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमश्चतुरो देयाद् विद्यातीर्थमहेश्वरः ॥ श्रीमद्राजाधिराजराज परमेश्वरश्री वीरप्रतापहरिहरमहाराजकारिते अथर्वसंहिताभाष्ये षष्ठकाण्डं संपूर्णम् ॥