पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमे काण्डे दशानुवाकाः । तत्र प्रथमेनुवाके त्रीणि सूक्तानि । तत्र धीती वा ये” इति प्रथमे सूक्ते आद्याभ्यां द्वाभ्याम् ॠग्भ्याम् अ थोत्थापनविघ्नशमनकर्मणि आज्यसमित्पुरोडाशादिशकुल्यन्तानां त्रयोदशा- नां द्रव्याणाम अन्यतमं जुहुयात् जपेद् वा । तद् उक्तं संहिताविधौ । 'धीती वेत्यर्थम् उत्थास्यन्नुपदधीत जपति" इति [को॰ ५. ५ ] ॥ तथा सर्वफलकामः आभ्याम् ऋग्भ्याम् इन्द्रामी यजते उपतिष्ठते वा । 'तदिद् आस [ ५.२.] धीती वा [७.१] इतीन्द्रानी' [ कौ० ७.१०] इति कौशिकसूत्रात् ॥ 66 श्रीगणाधिपतये नमः ॥ यस्य निश्वसितं वेदा यो वेदेभ्योखिलं जगत् । निर्ममे तम् अहं वन्दे विद्यातीर्थमहेश्वरम् ॥ अत्र “अथर्वाणं पितरम्" इत्यष्टर्चेन सर्वफलकामः अथर्वाणं यजत उपतिष्ठते वा । 'यस्येदमा रज: [ ६.३३ ] अथर्वाणम् [ ७.२] अदिति- द्यौः "[७. ६ ] इति [ कौ० ७.१०] सूत्रात् ॥ 66 " “अया विष्ठा ” इति द्व्यूवेन नवं रथम् अभिमन्त्र्य जयकामं राजा- नम् आरोहयेत् । सूत्रितं हि । “अया विष्ठा [७.३] अन इन्द्रः [७. “११५] दिशश्चतस्रः [ ६.८.२२] इति नवं रथं राजानं ससारथिम् आ- “स्थापयति इति [ कौ०२. ६ ] ॥ "" 66 'एकया च”[७.४] इत्यनंया अश्वशान्तौ सर्वौषधिचूर्णम् अश्वस्य मू- मिं प्रकिरेत् । वातरंहा: [ ६. ९२] इति स्त्रातेश्वे” इति प्रक्रम्य कौ- शिकेन सूत्रितम् । “चूर्णैरवकिरति त्रिरेकया च” इति [ कौ° ५. ५] ॥ तथा चातुर्मास्ये शुनासीरीयपर्वणि वायव्ययागानुमन्त्रणम् अनया कु- र्यात् । उक्तं वैताने । “वायव्यं शुनासीरीयं सौर्यम् एकया चेति" [वै० २.५]॥