पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ८८ "यज्ञेन इत्यनया सोमयागे आतिथ्येष्टौ हविर्ब्रह्माभिमृशेत् । “आ- तिथ्यायां हविरभिमृशति यज्ञेन यज्ञम्” इति हि वैतानं सूत्रम् [ वै• ३.३]॥ ३०२ "" तत्र प्रथमा || धी॒ीती वा॒ा ये अन॑यन् वा॒ाचो अग्र॒ मन॑सा वा येव॑द॒न्नृ॒तानि॑ । तृतीये॑न॒ ब्रह्म॑णा वावृधा॒नास्तु॒रीये॑णामन्वत॒ नाम॑ धे॒नोः ॥ १ ॥ धीत | वा । ये । अन॑यन् । वाचः । अग्र॑म् | मन॑सा । वा । ये । अव॑दन् । ऋतानि । त॒तये॑न । ब्रह्म॑णा । व॒वृधा॒नाः । त॒रीये॑ण । अमन्वत । नाम॑ । धेनोः॥१॥ यद्यपि अस्मिन् व्यूचे देवताविशेषो न प्रतीयते तथापि “अनिरुक्तो वै प्रजापति: " इति [ ऐ°ब्रा० ६.२०] श्रुतेदेवता अत्र प्रजापतिः । अथर्वाणं पितरम्" इत्यष्टर्चेपि प्रजापतिर्देवता 1. अथर्वशव्दः प्रजापति - वाचक इति वक्ष्यते । अतः कृत्स्नम इदं सूक्तं प्राजापत्यम् । अत एव अर्थात्थापनकर्मणि समिदाज्यादिहोमे देवताविशेषादर्शनात प्रजापतिर्देवतेति निश्चीयते ॥ अथवा “धीती वेति व्यचेन इन्द्राग्री यजेत सर्वकाम: इति विनियोगविधानात् तयोश्च " उभा दाताराविषां रयीणाम् " [ ऋ० ६.६०.१३] इत्यादिषु फलदातृत्वप्रसिद्धेः देवताविशेषानादेशस्थलेषु च म जापतिवद् इन्द्रस्यापि देवतात्वेन स्मरणात् ऐन्द्रेषु च मन्त्रेषु “मुञ्चामि त्वा हविषा" [ ऋ० १०.१६१.१] इत्यादिषु अग्नेर्निपातभात्काद् इन्द्रा- झी देवतेति अध्यवसीयते । अपि च " यत् सर्वेषाम् अर्धम इन्द्रः प्रति " [तै० सं० ५. ४. ८.३] इति “अग्नि: सर्वा देवता : " [तै० सं० २.२,९, १] इति इन्द्रस्याश्च सर्वदेवतात्मकत्वाभिधानात् तयोर्यागेन सर्वकामप्राप्ति- युक्ता । अतस्तस्य तयोर्वा इतरदेवतावन्न स्तुतिहवि: प्रदानमात्रेण अर्थसिद्धिः किं तु तन्माहात्म्यज्ञानेनैव इत्यभिप्रेत्य आद्ययर्चा तज्ज्ञानप्रकार: उत्त- रया तत्सार्वात्म्यम् अभिधीयते ॥ ईदृशी खलु विवक्षूणां शब्दाभिव्यक्ति | प्रथमम् अभिलषितम् अर्थ, 66 ""