पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० १.]३१६ सप्तमं काण्डम् । ३०३ विवक्षोः पुरुषस्य तवाचकशब्दप्रयोगार्थ तदिच्छावशेन जातात् प्रयत्नात् मूलाधारे प्राणवायो: परिस्पन्दो जायते । तेन परिस्पन्देन मूलाधारे स-. कलशब्दमूलकारणभूता निष्पन्दा सूक्ष्मा परा वाक् आविर्भवति । सेव मूलाधाराद् ऊर्ध्वं नाभिदेशं प्राप्ता सामान्यज्ञानरूपा विवक्षितपदार्थदर्श- नात् पश्यन्तीति उच्यते । सैव हृदयदेशं प्राप्ता अर्थविशेषनिश्चयबुद्धियुक्ता मध्यदेशावस्थानाद् मध्यमेति गीयते । सेव कण्ठताल्वादिस्यानेषु वर्णरू- पेण व्यज्यमांना विशेषेण परावबोधप्रचण्डा वैखरीति भण्यते । अत्र प राद्यवस्थात्मकास्त्रयः शब्दा देहान्तर्गतत्वाद् अस्फुटत्वेन विवक्षितम् अर्थ. परेभ्यो न प्रतिपादयन्ति । वैखर्यात्मकः शब्द एव अर्थप्रत्यायनक्षमः । "गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति हि निगमः [ ऋ० १. १६४.४५] | गुहायां त्रीणि पदानि निहितानि ना- थे वेदयन्ते इति हि यास्केन व्याख्यातम् [नि०प० १.९] | आगमोपि । स्वरूपं ज्योतिरेवान्तः परा वाग् अनपायिनी । यस्यां दृष्टस्वरूपायाम अधिकारो निवर्तते ॥ अविभागेन वर्णानां सर्वतः संवृतकमा । प्रणात तु पश्यन्ती मयूराण्डरसोपमा ॥ मध्यमा बुद्ध्युपादाना कृतवर्णपरिग्रहा । अन्त: संजल्परूपा तु न श्रोत्रम् उपसर्पति ॥ ताल्वोष्ठव्यापृतिव्यङ्गया परबोधप्रकाशिनी । मनुष्यमात्रसुलभा बाह्या वाग् वैखरी मता ॥ 66 इति । तथा च अस्यां ऋचः अयम् अर्थः । ये प्रजापतेः इन्द्राम्योर्वा वाचकशब्दं विवक्षवः स्तोतारः धीती । ॠ ध्यायतेः क्तिनि छान्दसं संप्रसारणम् । 'हल: ” इति दीर्घः । “सुपां सुलुक्” इति तृतीयाया: पूर्वसवर्णदीर्घः । धीत्या ध्यानात्मकेन विवक्षाजन्यप्रयत्नजातप्राणवायु- परिस्पन्दाविर्भूतेन परावस्थापन्नेन प्रथमेन शब्दब्रह्मणा इति यावत् । “तृ- तीयेन ब्रह्मणा ” इति वक्ष्यमाणवाद् अत्रापि संख्याविशिष्टब्रह्मपदं संबध्य- " 1 So S'. 2S' "पृथि°. ●