पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ अथर्वसंहितांभाष्ये ते । वाशब्दः चार्थे । वाचो अग्रम् । “सर्वे वेदा यत् पदम् आमनन्ति" इति [क०व०२, १५] श्रुतेः सकलवाक्यप्रतिपाद्यवेन मुख्यम् निखिलवा- ग्व्यवहारस्य वा आदिभूतं प्रजापतिरूपम् अर्थम् इन्द्राग्निरूपं वा अन- यन् ध्यानविषयत्वं प्रापितवन्तः । “यद्वृत्तान्नित्यम्” इति निघा- ८८ तनिषेध: । अडागमस्य उदात्तत्वेन आधुदात्तं पदं भवति । ये च विवक्षवः मनसा सामान्यधर्मग्राहकेण पश्यन्त्यात्मकेन द्वितीयेन श- व्दब्रह्मणेत्यर्थः । ऋतानि सत्यभूतानि अखण्डपरावस्थापेक्षया ईषद् उद्ग- तानि वा वाक्यानि देवतावाचकशब्दविचारविषयाणि अवदन् । वदनम् अत्र सामान्यज्ञानं विवक्षितम् । पूर्ववाक्ये यच्छब्दश्रुतेस्तच्छन्द: अध्या- हार्यः । ते विवक्षवः तृतीयेन | ध्यानमनोवच्छिन्नपरापश्यन्त्यपेक्षया तृती- यत्वम् । त्रित्वसंख्यापूरकेण ब्रह्मणा । अन्तर्विभक्तवर्णात्मकेन अर्थविशेषा- ध्यवसायबुद्धियुक्तेन मध्यमाख्येनेत्यर्थः । वावृधानाः । * अन्तर्भावि- तण्यर्थ: । वृधेर्लिंट: कानच् | तुजादित्वाद् दीर्घः । चित: " इति अ न्तोदात्तत्वम् । वर्धयन्तः अशव्दविषयम् अर्थ शब्दवाच्यत्वेन पोषय- न्त: तुरीयेण चतुर्थेन । हु“चतुरश्छयतावाद्यक्षरलोपश्च” इति छ- चतुःसंख्यापूरकेण वैखर्यात्मकेन वर्णपदवाक्यरूपेण ब्रह्म- णा धेनोः । वाङ्गमैतत् । वाच्यवाचकयोरभेदाद् वाच्ये वाचकशब्दः । मन्त्रप्रतिपाद्यस्यं । यद्वा धेनुवद् धेनुः । अभिमतफलप्रदानेन प्रीणनकारि- णः प्रजापतेः नाम नामधेयम् प्रजासर्जनपालनादिधर्मकं प्रजापतिरिति । इन्द्राग्निदेवतापक्षे इदंदर्शनभूतेन्धनादिगुणविशिष्टम् [नि० १०.७] इन्द्र इ- ति अग्रणीत्लाङ्गनादिगुणकम् अग्निरिति च नामधेयम् अमन्वत । उच्चा- रितवन्त इत्यर्थः । X धातूनाम अनेकार्थत्वात् । मनु अवबोधने । तानादिकः । एवं परादिवाचा प्रतिपादितस्वरूपः प्रजापतिः स्माकम् अभीष्टं साधयत्विति इन्द्राग्नी वा साधयताम् इति प्रार्थना ॥ प्रत्ययः । अ- अथवा वाचो अग्रम् इति पदेन वेदात्मिकाया वाचो निदानं पर्यव- सांनभूमिर्वा परमात्मतत्त्वं विवक्ष्यते । तथा च ऐतरेयारण्यके "तदिद् आस भुवनेषु ज्येष्ठम् " [ऋ० १०.१२०] इत्यस्य सूतस्य तच्छन्दमशंसा- 1S inserts नू alier पाद्यस्व. 2S' धेनुष्वि:. :'S' 'पादितनु' ( 'तधेनु ? ). ,,