पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | ३०५ [अ० १. सू° १.]३१६ वसरे समाम्नायते । 66 66 ०" 'परिच्छेदापनयनरूपवर्धनाडेतो: तृ- 'बृहस्पते प्रथमं वाचो अग्रम [ ऋऋ० १०.७१.१] इत्येतद्ध्येव प्रथमं वाचो अग्रम्” इति [ऐ० आ° १.३.३] । दिद् आस इत्यत्र तच्छब्देन सर्वश्रुतिप्रसिद्धं सर्वजगत्कारणं ब्रह्म अभिहितं तद् अत्र एतच्छब्देन विवक्ष्यत इति तत्रार्थ: । तादृशं सकलवाङ्गिदान- भूतं तत्त्वं ये जिज्ञासवो महर्षयो देवा वा धीती । कर्मनामैतत् । धी- त्या । वाशब्दो विकल्पवाची । बाह्यविषयव्यापृतया अक्षवृत्त्या अनयन् । ज्ञातुं प्रयत्नं कृतवन्त इत्यर्थः । अनेन जाग्रदवस्थाभिमानिविश्वसंज्ञात्मना तत्त्वं ग्रहीतुम् उद्युञ्जत इत्युक्तं भवति । ये वा ततोपि सूक्ष्मदर्शनो मनसा केवलेन अन्तःकरणेन ऋतानि सत्यब्रह्मविषयाणि वाक्यानि अव- दन् । अनेन स्वप्नावस्थायां केवलमनोव्यापारात् तदभिमानितैजसात्मकत्र- झणा तत्त्वज्ञानाय प्रयतन्त इत्युक्तं भवति । ये वा ततोप्यान्तरं वस्तु जिज्ञासमाना वावृधानाः । ४ वर्धतेः “लक्षणहेत्वो: ' इति हेतौ शानचि व्यत्ययेन शपः श्रुः । तीयेन त्रित्वसंख्यापूरकेण ब्रह्मणा चैतन्यात्मना । अत्र सुषुप्तौ कारणश- रीराभिमानी प्रज्ञानघन: प्राज्ञो विवक्षितः । तेन जागरस्वप्नावस्थावत् सु- षुप्तौ बाह्यान्तरेन्द्रियजनितविक्षेपाभावात् अपरिच्छिन्नब्रह्मभावेन वर्तन्त इति शेषः । एवम् अवस्थात्रयाभिमानिविश्वादिनादात्म्येन तत्त्वं बुभुत्सवः स- र्वेपि तत्रतत्र निरस्तसमस्तभेदं तत्त्वम् अलभमानाः सन्तः धेनो; वाचो अग्रम् इति निर्दिष्टस्य फलप्रदस्य वा परमात्मनः नाम नामकं यत्स्वरूपं प्रति सर्वे प्रणताः तत् निरस्तसमस्तोपाधिकं सत्यज्ञानादिलक्षणं तत्त्वं तु- रीयेण तुर्यावस्थापनेन कारणशरीराभिमानरहितेन सर्वसाक्षिणा चैतन्येना- त्मना अमन्वत जानन्ति स्म । “गूढं सूर्य तमसापव्रतेन तुरीयेण ब्रह्म- णाविन्दद् अत्रिः” इति हि निगमः [ऋ० ५.४०.६] । “स ब्रह्मा [ स शिव: ] स हरि: सेन्द्र: सोक्षर : परम: स्वराट्" इति श्रुतौ [तै आ० १०.११.२] परमात्मनो नानादेवतानामव्यवहार्यत्वदर्शनाद् अत्र प्रजाप- तिशब्दव्यपदेश्यम् इन्द्राग्निशब्दव्यपदेश्यं वा तदेव तत्त्वं सम्यग् अधिगतं सत् अस्माकम् अभिमतं साधयत्विति प्रार्थ्यते ॥ 66 1S inserts ऋता (loubtless a mistake for ॠता ) after करणेन. 250 $'.