पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये द्वितीया ॥ स वे॑द पु॒त्रः पि॒तरं स मा॒तरं स सूनुर्भुव॒त् स भ॑वत् पुन॑र्मघः । स धार्मोर्णोद॒न्तरि॑क्षं स्व॑र्व॒ः स इ॒दं विश्व॑मभवत् स आभ॑वत् ॥ २ ॥ सः । वे॒द॒ । पु॒त्रः । पि॒तर॑म् । सः । मा॒तर॑म् । सः । सूनुः । भुवत् । सः । भुव॒त् । पुन॑ऽमघः । सः । द्याम् । औत् । अ॒न्तरि॑क्षम । स्व॒ः । सः । इ॒दम् । विश्व॑म् । अ॒- भवत् । सः । आ । अभवत् ॥ २ ॥ ३०६ 66 अनया उक्तविधस्य देवस्य ब्रह्माभेदेन सार्वात्म्यम् अभिधीयते । स विश्वात्मकः प्रजापतिः पुत्रः स्वीयं रूपम् सम्यक् जानतः पुरुषान् अनर्थ - हेतोः संसारात् त्रायत इति पुत्र इति व्यपदिश्यते । पुत्रः पुरु त्रा- यते [ नि० २.११] इत्यादि निरुक्तम् । पितरम धुलोकं वेद वे- ति । स एव मातरम् पृथिवीं वेत्ति । प्रजापतिः द्यावाभूमी स्वधार्यवेन जानातीत्यर्थः । “ द्यौः पिता । पृथिवी माता" इति हि मन्त्रवर्ण: [तै● ब्रा॰३.७.५.५]। “ताभ्याम् इदं विश्वम् एजत् सम् एति यद् अन्तरा पितरं मातरं च " [ऋ० १०.१५] इति श्रुतेः द्यावापृथिव्योर्मध्ये विश्वस्यावस्थानात् तयोः प्राधान्येनाभिधानम् । अथवा “हिरण्यगर्भः स मवर्तनाग्रे " [ ऋ० १०.१२१.१] इति मन्त्रवर्णात् प्रजापतिः परमात्मना प्रथमं सृष्टः । तस्य पिता सकलजगदधिष्ठानं परं ब्रह्म । माता चित्म- तिबिम्बिता मूलप्रकृति: । तौ प्रजापतिः स्वाभेदेन जानाति । पुत्रशब्दः अत्र मुख्यार्थवाची । कारणपरिज्ञानेन कार्यमपि तदभेदात् परिज्ञातं भ वतीति कारणभूतमातापितृपरिज्ञानमात्रम् अत्रोक्तम् । न केवलं परि- ज्ञाता अपि तु स प्रजापतिः सूनुः सर्वस्य जगतः स्वस्वकर्मसु प्रेरयिता भुवत् भवति । “एष उ एव साधु कर्म कारयति तम्" [ कौ° उ°३.४] इत्यादिश्रुतेः । प्रेरणे इत्यस्माद् औणादिको नुप्रत्ययः । भुवत् भूसुवोस्तिङि ” इति गुणप्रति- " इति । भवतेलेङि • व्यत्ययेन शः 1 " १ ABB३ for १. We with K KRŚV Cs. 66