पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ अथर्वसंहिताभाष्ये तम् " “दम अग्र आसीत् । स्वयंभ्वेकमेव तद् ऐक्षत । मन्मात्रं द्वितीयं देवं “निर्ममे” इति [गो०१.१] प्रक्रम्य तद् अथर्वाभवत्" इत्यथर्वसृष्टिम् अभिधाय तस्याथर्वणः परब्रह्मणश्च अभेदं प्रतिपाद्य समाम्नायते । 'अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति | [ तद् यद् 'अब्रवीत् प्रजापतेः प्रजा: सृष्ट्वा पालयस्वेति ] तस्मात् प्रजापतिरभवत् । " तत् प्रजापते: प्रजापतित्वम् । अथर्वा वै प्रजापतिः” इति [ गोब्रा० १. ४] । तथा 'प्रजापतिरथर्वा देवस्तपस्तत्वैतं चांतुष्प्राश्यं ब्रह्मौदनं नि- रमिमीत " इति [गो° ब्रा०२.१६] । अतः अथर्वशब्देन प्रजापतिरुक्तः । तस्य प्रजानां स्रष्टृत्वं पालकत्वं च अनेन प्रदर्श्यते । पितरम् पालकं प्र- जानाम् । न केवलं पालकः अपि तु देवबन्धुम् देवानां बन्धुं कारणं स्रष्टारम | "समुद्रो बन्धुः ” [? ५.११.१०] इत्यत्र बन्धुशब्द: कारणम् आहेत व्याख्यातम् । मनुष्यादिसृष्टेर्देवसृष्टि: पूर्वभाविनीति सा प्रथमम् उक्ता । स्त्रीपुंससृष्टिरपि तस्मादेव भवतीत्याह । मातुर्गर्भम् यस्य गर्भस्य या माता तस्यास्त गर्ने युवानम् मिश्रयन्तं कुर्वन्तम् । पितुर्गर्भजनकस्य असुम् प्राणं माणसंहितम् । रेत इत्यर्थः । तच्च युवानम् सिञ्चन्तम् । “न ह वा ॠते प्राणाद् रेत: सिच्यते” इति [ ऐ० आ० ३.२.२ ] “आ सिञ्चतु प्रजापतिर्धाता गर्ने दधातु ते” इति [ ऋ० १०.१७४.१] च श्रुतिभ्यः । ॐ युवानम् इति । यौतेरादादिकात लट: शानचि उवङादेशे रूपम् । स्त्रीपुंससृष्टि: इतरसृष्टेरुपलक्षणम् । यहा स इदं सर्वम् अभवत्" इति स्वस्यैव जगदात्मना भवनाद् गर्भरूपत्वम् अ सुरूपत्वं च संपद्यते । 'यच्चासुः पुरुषो जायते यच्च पुत्र: " इति हि श्रुतिः । तथापि युवानम् नित्यतरुणम् । न कदाचिदपि जननादिभाव- विकारवन्तम् इत्यर्थ: । एतादृशम् अथर्वाणम् । Xथर्वतिश्चरतिकर्मा तत्प्रतिषेधः इति हि यास्कः [नि०११.१७] । अत्र चरतिना च्युतिर्वि- वक्ष्यते । च्युतिरहितं प्रजापतिं स्वमनीषितसिद्धये प्रार्थय इति शे- षः । एवं सम्यग्विदिताथर्वस्वरूपो मन्त्रद्रष्टा महर्षि: स्वेन ज्ञातं तत्स्वरूपं 66 66 66 66 15' स्वयंभुवैकमेतद् स्वयंभ्वकमेव नद, which we with Deeean College 6 of 1879-71 and 8 of 1880-81. 2 5' चतु. BS' प्रदृश्यते. 1S' 'रहितम्.