पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू०२.]३१७ सप्तमं काण्डम् | ३०९ परेषां प्रत्याययितुं स्वयम् अजानन्त्रिव तटस्थम् अभिज्ञं पृच्छति उत्तरा- र्धेन य इति । य: अथर्वा । “एतद् वा अथर्वणो रूपं यद् उष्णीषी " 66 ब्रह्मा [गो॰ब्रा॰ २,१९] इत्याम्नानाद् अथर्वात्मक ऋविभूतो ब्रह्मा इमम् अनुष्ठीयमानं सर्वफलसाधनं यज्ञं स्वर्गादिसाधनं प्रसिद्धम् अग्नि- टोमादियज्ञं वा मनसा चिकेत । किती संज्ञाने । जा- नाति अनुसंधत्ते । एतद् उक्तं भवति । यज्ञस्य हि द्वौ पक्षौ । तत्रैकः पक्षः त्रिभिर्होत्रादिभिर्वाचा संस्कियते । अपरस्तु ब्रह्मणा मनसेति । अत्र "तस्य वाक् च मनश्च वर्तनी ” इति प्रक्रम्य ब्राह्मणे समाम्नायते । “स वा एष त्रिभिवेदैर्यज्ञस्यान्यतरः पक्षः संस्क्रियते मनसैव ब्रह्मा यज्ञ- स्यान्यतरं पक्षं संस्करोति" इति [ गो० ब्रा०३.२] तं मनसा यज्ञान् अनुसंदधानम् अथर्वाणं नः अस्माकं प्र वोच: प्रकर्षेण ब्रूहि । हे वि- इन्निति शेषः । किं यदाकदाचित् । नेत्याह । इहेह अस्मिन्नस्मिन् अ- भिलषितसाधने कर्मणि व्रवः ब्रूहि | जानासि चेद् ब्रूहि । मद्व्यतिरिक्तो न कोपि जानातीत्यर्थः । वोच इति । ब्रवीतेश्छान्दसे लुङि ले- रङि अडभावे रूपम् । इहेहेति । वीप्सायां द्विवचनम् । 'अनुदात्तं च" इति आम्रेडितस्य अनुदात्तत्वम् | ब्रव इति । पञ्चमलकारे “ले- टोडाटौ " इति अडागमः ॥ यद्वा प्रजापतिस्वरूपं सामान्यतो ज्ञा- त्वा तद्विशेषजिज्ञासायै पार्श्वस्यं पृच्छति । यो विद्वान् इमम् अथर्वाणं पितरं देवबन्धुमित्याकलक्षणं सर्वे: स्वात्मत्वेन अनुभूयमानं वा यज्ञम् यष्टव्यं यज्ञात्मकं वा प्रजापति मनसा मनसैव चिकेत जानाति । न के- वलं श्रुतिवाक्य श्रवणेन किं तु मनननिदिध्यासनाभ्यां यस्तत्त्वं साक्षात्करो- ति तम् अभिज्ञं नः अस्माकं प्रब्रूहि । आचार्यवान् पुरुषो वेद" इति श्रुतेः [ छा॰ ६.१४.२] आचार्योपदेशेनैव अधिगतं देवास्वरूपं पु- रुषार्थार्थ भवतीति विवक्षया अभिज्ञप्रश्नः । अथ तेना ज्ञेन प्रदर्शितं तत्त्वोपदेष्टारं गुरुं पृच्छति तम् इहेह व्रव इति । यह दवतास्वरूपपरि- ज्ञाने क्रियमाणं कर्म सगुणं भवेद् इति मनीषया मंतः ॥ अथवा म- न्त्रद्रष्टा महर्षि: स्वात्मानमेव संबोध्य ब्रूते । य उक्तंविधः प्रजापति: तं 1S' स्वयमजातानन्व lor स्वयमजानन्निव. 66