पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१२ अथर्वसंहिताभाष्ये तिरत्र गतिमात्रवाची । आगच्छ । किमर्थम् । इष्टये यागाय | 66 । अस्मा- "मन्त्रे वृषे- 66 अ- । व्यत्यये- दशभिरिति "झल्युपो- याग्रहणं कर्तव्यम्” इति कर्मण: संप्रदानत्वात् चतुर्थी भिरनुष्ठीयमानं कर्म आयाहि । यह्वा इष्टये इच्छायै । षपच" इति किन्नुदात्तः । क्रियार्थोपपदस्य” इति चतुर्थी स्मदीयफलकामनां पूरयितुम् एकादशभिरश्वाभिः वहसे । न कर्मार्थे कर्तृप्रत्ययः । उसे । तमम्" इति स्वरेण मध्योदात्तं पदम् । तथा द्वाभ्यां च विंश- त्या च द्वाविंशत्या वडवाभिर्वहसे । ॐ विंशत्येति । “उदात्तयणो ह- ल्पूर्वात्” इति विभक्तिरुदात्ता । तथा तिसृभिश्च त्रिंशता च त्र- यस्त्रिशता अश्वाभिवर्हसे । अयम् अर्थः । सुहुत इति विधेयविशेषणम यतस्त्वं सुहुतिः अतः अस्मदाह्वानानुसारेण अस्माकं फलप्रदानादरानुसा- रेण वा शीघ्रम् आगन्तुं कदाचिद् एकादशभिः कदाचिद् द्वाविंशत्या कदाचित् त्रयस्त्रिंशता वडवाभिः अस्मदीयं यागं प्राप्नुहीति । अतित्वराग- मनविवक्षायां वायोः अपरिमिता अश्वाः शाखान्तरे समाम्नायन्ते । “आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार” इति [ ऋ° ७. ९२.१] । वायोरश्वा नियुत इत्युच्यन्ते । आगत्य च हे वायो इह अस्मिन् अस्मदीये कर्मणि अश्वशान्तिलक्षणे वा ता वडवा वि मुञ्च | इ- हैव स्थापय | इतः प्रदेशात प्रदेशान्तरम् आभिर्वडवाभिर्मा प्राप इत्यर्थः ॥ षष्ठी ॥ 3 66 य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्माणि प्रथ॒मान्या॑सन् । । ते ह॒ नाकं॑ महि॒मान॑ सचन्त॒ यत्र॒ पूर्वे॑ स॒ाध्याः सन्ति दे॒वाः ॥ १ ॥ य॒ज्ञेन॑ । य॒ज्ञम् । अ॒यजन्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । म॒थ॒मानि॑ । आ॒स॒न् । । ह॒ । नाक॑म् । म॒हि॒मान॑ः । स॒च॒न्त॒ । यत्र॑ । पूर्वै । स॒ध्याः । सन्ति । दे॒वाः ॥ १ ॥ देवाः कर्मणा देवत्वं प्राप्ता यजमाना: पूर्व यज्ञेन अग्झिना निर्मन्थ्येन यज्ञं होमाधारम् आहवनीयम् अग्निम् अयजन्त । यजिरत्र संगत-