पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ अपर्वसंहिताभाष्ये दुःखेन यन्त्र संभिन्नं न च ग्रस्तम् अनन्तरम् । अभिलाषोपनीतं यत् सुखं स्वर्गपदास्पदम् इत्युक्तनित्यसुखरूपम् यद् गत्वा न निवर्तन्ते तद् धाम परमं मम । इति [भ॰गी० १५.६] भगवतोक्तं स्थानं सचन्त सेवन्ते प्राप्नुवन्ति । व्यत्ययेन कर्तरि कृत्यप्रत्ययः । साधकाः । अहं- साध्याः । गृहोपासका इत्यर्थः । यहा साध्यं ज्ञानेन प्राप्यं वस्तु येषाम् आत्मत्वेन अस्तीति । * अर्शआदित्वाद् अच् प्रत्ययः । शिष्टं समानम् ॥ सप्तमी ॥ य॒ज्ञो ब॑भूव स आ व॑भूव॒ स म ज॑ज्ञे स उ॑ वावृधे पुन॑ः । स दे॒वाना॒ामधि॑पतिर्बभूव सो अ॒स्मासु द्रवि॑ण॒मा द॑धातु ॥ २ ॥ य॒ज्ञः । ब॒भू॒वः॒ । सः । आ । बभूव । सः । प्र । ज॒ज्ञे । सः । ऊं इति॑ । व- वृधे॒ । प॒न॑ः । स । दे॒वाना॑म् । अधि॑ऽपतिः । व॒भूव॒ । सः । अस्मासु॑ । द्रवि॑णम् । आ । धातु ॥ २ ॥ यज्ञः यज्ञरूपः प्रजापति: प्रसिद्धो वा यज्ञ: स बभूव विश्वात्मना व्याप्तः निर्वृत्तो वा अभूत् । स आ बभूव सर्वतः कारणात्मना अभवत् [ यद्वा ] स निर्वृत्तो यज्ञ: आवृत्य भवतु पुनःपुनर्भवतु । * छान्दसो लिट् । स प्र जज्ञे ।

  • जानातेर्जायतेर्वा रूपम छ । म.

ज्ञात: प्रसिद्धो यज्ञ: प्रकर्षेण जातः । फलोन्मुखो जात इत्यर्थः । उश- द: अवधारणे । स एव पुनर्वावृधे अद्यापि जगदात्मना पुन:पुनर्वर्धते वर्धतां वा यज्ञः । तुजादित्वाद् अभ्यासस्य दीर्घः । स दे- वानाम इन्द्रादीनाम् अधिपतिः अधिको मुख्यः स्वामी बभूव । यज्ञो वा हेतुलाद् देवानाम अधिकं पालयिताभूत् । स यज्ञः अस्मासु हवि- घा परिचरत्सु द्रविणम् धनम् अभिमतं फलम् आ दधातु स्थापयतु ॥ 15′ arlds an इति after °स्पदम् and before इत्युक्त° 25 निवृत्ती.