पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | अष्टमी ॥ यद् दे॒वा दे॒वान् ह॒विषाय॑ज॒न्ताम॑र्त्यान् मनसाम॑त्ये॑न । मदैम तत्रं परमे व्योमन् पश्ये॑म तदुर्दिती सूर्य॑स्य ॥ ३ ॥ यत् । दे॒वः । दे॒वान् । ह॒विषा॑ । अय॑जन्त । अम॑र्यान् । मन॑सा । अम॑र्थेन । मदे॑म । तत्र॑ । प॒र॒मे । विऽओमन् । पश्ये॑म । तत् । उतऽईतौ । सूर्य॑स्य ॥ ३ ॥ [अ० १. सू० ५.] ३२० देवाः कर्मणा देवत्वं प्राप्ताः यत् फलम् | उद्दिश्येति क्रियाध्याहारः । अमर्त्यान अमरणधर्मणो देवान् इन्द्रादीन अमर्त्येन अमर्त्यसंबन्धिना । देवविषयेणेत्यर्थः । अविनाशिना वा । भोगायतनेष्वागमापायिष्वपि म- नसोवस्थानाद् नित्यत्वम् । तादृशेन चिरकालावस्थायिना मनसा हविषा चरुपुरोडाशादिना अयजन्त इष्टवन्तः इति स्वेषामेव परोक्षेणाभिधानम् । “विद्वान् य॑जेत" इति “विद्वान् याजयेत" इति वचनाद् अनुष्ठेयार्थप्र- काशकमन्त्रार्थयष्टव्यदेवताकर्तृज्ञानरूपं वेंदुष्यं कर्मसु अपेक्षितम् तच्च पूर्वाप रानुसंधानसाधनभूतेन मनसा विना न संभवतीति मनसेत्युक्तम् । “यस्यै देवताये हविगृहीतं स्यात् तां ध्यायेद् वषहरिप्यन्” इति हि [ ऐ० ब्रा० ३.७] श्रुतिः । वषट्कारवचनम् उपलक्षणम् । तत्र तस्मिन् परमे उत्कृष्टे केवलपुण्यफलभोगस्थाने व्योमन् व्योमनि धुलोके मदेम वयं यजमाना हृष्यास्म । माद्यते: “लिड्याशिष्यङ् ” प्रत्ययः हु । अपि च ३१५ 66 सूर्यस्पोदितौ । धुलोके हि नित्योदितः सूर्यः । सूर्यप्रकाशे यावत्सूर्यप्रकाशं तत् फलं पश्येम । ॐ पश्यतिरत्र आलोचनवाची भोग्यत्वेन B मये॑न २P दे॒वाः १ 1S' यजे for यजेत. । जानीम: । चिरकालं पुण्यफलम् अनुभवेमेत्यर्थः ॥ एवं द्रव्ययज्ञस्वरूप- तत्फलतद्भोगस्थानपरतया व्याख्यातः । ज्ञानयज्ञपरत्वेनापि अयं मन्त्रो व्याख्यायते । आत्मविषयविद्यया दीव्यन्ति क्रीडन्तीति देवाः विविदिषवः । यत् । सप्तम्या लुक् .. । यस्मिन् ब्रह्मानौ देवान् । देवश- ब्देन देवनसाधनभूता इन्द्रियवृत्तयो विवक्ष्यन्ते । तासां मनसश्च विषयेषु सांतत्येन प्रवर्तनाद् अमर्त्यत्वाभिधानम् । अथवा तत्त्वविद्योदयपर्यन्तम् इ-