पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० ५.] ३२० सप्तमं काण्डम् | ३१७ 66 ते । “पुरुषो ह वै नारायणोकामयत । अतितिष्ठेयं सर्वाणि भूतान्यहमेवेदं 'सर्व स्याम् इति । स एवं पुरुषमेधं पञ्चरात्रं यज्ञऋतुम् अपश्यत् । तम् आहरत् । तेनायजत । तिष्ठत् । सर्वाणि भूतानीदं सर्वम् अ भवत्" इति [ श० ब्रा० १३.५.५.१] | देवाः दीव्यन्तीति देवा यज- माना: पुरुषेण अश्वरूपेण हविषा । “अथ स पुरुषोश्व आसीत्" इति वाजसनेयश्रुतेः । अत्र साक्षात् पुरुषस्य अनालम्भनात् पर्यश्निकरणानन्त- रम् उत्सर्गविधानाद् अश्वमेधांतिदिष्टोश्वः पशुः पुरुषशब्देन विवक्ष्यते । तेन हविषा यज्ञं पुरुषमेधाख्यम् अतन्वत विस्तारितवन्तः । ० वृत्तयोगाद् अनिघातः । “ब्रह्मणे ब्राह्मणम् आलभते" [तै ब्रा० ३.४.१.१] इत्यादिना समाम्नाता ब्राह्मणक्षत्रियवैश्यशूद्रादिरूपा बहवः पुरुषपशवो विद्यन्ते इति यज्ञविस्तारोक्तिः । एवं पुरुषहविष्कयज्ञ इति यद् अस्ति तस्माद् ओजीय: अतिशयेन ओजस्वि सारवत् अस्ति न विद्यते खलु । सामान्यनिर्देशेन यज्ञस्वरूपापेक्षया वा नपुंसकत्वम् । Xओ- जीय इति ओजस्विशब्दाद् ईयसुनि विनो लुकि रूपमा । ओ- जीयोस्तीति प्रतिज्ञातम् तद् दर्शयति । विहव्येन हव्यं होतव्यहविः । वि- गतहविष्केण ज्ञानयज्ञेन ईजिरे इष्टवन्तः स्वात्मानं परमात्माभेदेन साक्षा- त्कृतवन्त इति यत् तद् ओजीय इति । द्रव्ययज्ञज्ञानयज्ञयोरुभयोः सार्वा- न्म्यलक्षणफलसाम्येपि पुरुषमेधफलस्य कर्मजन्यत्वेन विनाशित्वं ज्ञानयज्ञ- फलं तु न तथेति तस्माद् ओजीय इत्युक्तम् । भगवतापि उक्तम् । श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परंतप । इति [भ॰गी० ४.३३] ॥ दशमी ॥ मुग्धा दे॒वा उ॒त शू॒नाय॑जन्तो॒त गोरः पुरु॒धय॑जन्त । य इ॒मं य॒ज्ञं मन॑सा च॒केत॒ प्र णो॑ वोच॒स्तमि॒हेह व्र॒वः ॥ ५ ॥ मुग्धः । दे॒वाः । उ॒त । शुना॑ । अय॑जन्त । उ॒त । गोः । अङ्गैः । पुरु॒ऽधा । अयजन्त | १ K पुरुषाय B पुरुधार्य° changed from पुरुषायं. २PPJCr omit the visarga. 1 S' एवं for एतं. 'S' अश्वमेधादतिदिष्टोश्वपशुः 'S' onits ज्ञान.