पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ अथर्वसंहिताभाष्ये यः । इ॒मम् । य॒ज्ञम् । मन॑सा । च॒केत॑ । म । नः॒ । वोः । तम् । इ॒ह । । इ॒ह । ब्रवः ॥ ५ ॥ एवं कर्मयज्ञात् ज्ञानयज्ञस्य उत्कर्ष श्रुत्वा कर्मयज्ञं निन्दन् अविनाशि- फलकामस्तटस्थो ब्रूते | मुग्धाः कार्याकार्यविवेकरहिता देवा यजमानाः । उतशब्द: अप्यर्थे । शुनापि अयजन्त । यज्ञो हि पशुसाधनकः । तत्र अत्यन्तगर्हितस्यापि शुन: पशुवेन निर्देशात् कर्मयज्ञस्य निन्दा दर्शिता । अखाद्यानां परमावधिः श्वा । तथा । उतशब्द: अप्यर्थे । [गो: ] गो- रूपपशो: अङ्गैः अवयवैरपि । “हृदयस्याग्रेवद्यति” [तै० सं० ६.३.१०.४] इति अङ्गावदानश्रवणाद् अङ्गैरिज्युक्तम् । अवध्यानां परमावधि॑र्गौः । पुरु धा बहुधा अयजन्त । एकदा करणे प्रमादाज्ञानादिकृतम् इति संभावना भवति । अतस्तन्निरासाय पुरुधेत्युक्तम | सर्वदा शुनकगवादिरूपैः पशु- भिर्यज्ञं कुर्वन्तीत्यर्थः । एवं पूर्वार्धेन कर्मयज्ञं निन्दित्वा उत्तरार्धेन ज्ञा- नयज्ञप्राप्तये तदभिज्ञं प्रार्थयते । यो विद्वान् इमं यज्ञम् यष्टव्यं परमा- त्मानं मनसा चिकेत जानाति स्म तं तथाविधं गुरुं नः अस्माकं म वोच: प्रकर्षेण ब्रूहि । तेन प्रदर्शितं गुरुं ब्रूते । इहेह इहैव इदानीमेव ब्रवः परमात्मस्वरूपं ब्रूहि ॥ [ इति ] सप्तमे काण्डे प्रथमेनुवाके प्रथमं सूक्तम् ॥ 66 66 66 'अदितिद्यौरदिति: ” [इति ] द्वितीयं सूकम् । तत्र आद्याभिश्चतसृभिः सर्वफलकाम: अदितिं यजते उपतिष्ठते वा । अथर्वाणम् [७. २] अदि- तिद्यैः [७. ६ ] दितेः पुत्राणाम् ” [७.६] इति [कौ०७.१०] सूत्रात् ॥ तथा आधाने पवमानष्ठी आदित्यहविरनुमन्त्रणे “अदितिय : ” इति विनियुक्ता । आधानं प्रक्रम्य वैताने सूत्रितम् । पवमानः पुनातु [ ६. १९.२] त्वेषस्ते [१६.४. ५९] अमी रक्षांसि [ ७.३.२६] अदितिद्यौः [७.६] इति [वै०२.२] ॥ 66 महीमू षु”[७.६.२] इति तृचेन नौघटादिभिरुदकतरणे स्वस्त्यय- नकामो नावादिकम् अभिमन्य तेन तरेत् ॥ 15' 'वधिश्वातथागः.