पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० अथर्वसंहिताभाष्ये तथा विक्रेयं वस्त्रादिकम् अनया संपात्य अभिमन्त्र्य लाभकाम: अ- भिमतं देशं नयेत् ॥ तथा लाभकाम: अनया वस्त्रादिकम् अभिमन्य स्वीकुर्यात् ॥ सूत्रितं हि । ‘‘भद्रादधीति प्रवत्स्यन्नुपदधीत | जपति । यानं संप्रोक्ष्य विमो- चयति । द्रव्यं संपातवद् उत्थापयति । निर्मृज्योपयच्छति" इति [कौ° ५.६] ॥ । तथा ग्रहयज्ञे "भद्रादधि” इत्यनया हविराज्यसमिदाधानोपस्थानानि बृहस्पतये कुर्यात् । तद् उक्तं शान्तिकल्पे । “स बुध्यात्[ ४. १. ५ ] भ- द्रादधि श्रेयः प्रेहि [७. ९] बृहस्पतिर्नः [७ ५३] [इति] बृहस्पतये " इ- ति [ शा० ऋ० १५ ] ॥ " 'प्रपथे पथाम्” इति चतुर्ऋचेन नष्टद्रव्यलाभार्थ नष्टद्रव्याकाङ्क्षिणां दक्षिणं पाणिम उन्मृज्य संपात्य विमृज्य वा उत्थापयेत् ॥ तथा तत्रैव कर्मणि अनेन चतुर्ऋचेन एकविंशतिशर्करा अभिमन्त्र्य चतुष्पथे निधाय विकिरेत् ॥ सूत्रितं हि । “ प्रपथ इति नष्टैषिणां प्रक्षालिताभ्यक्तपाणिपादानां द- 'क्षिणं पाणिं निर्मृज्योत्थापयेत् । एवं संपातवतो विमृज्यैकविंशतिशर्क- 'राश्चतुष्पथे निक्षिप्यावकिरति ” इति [ कौ० ७.३] ॥ 23 66 तथा चातुर्मास्ये वैश्वदेवपर्वणि "प्रपये पथाम' इत्यनया पौष्णं हविर- नुमन्त्रयेत । " चातुर्मास्यानि प्रयुञ्जीत ” इति प्रक्रम्य “प्रपये पथाम [७. १०] मरुतः पर्वतानाम् [५.२४.६]” इति [कौ०२.४] वैताने सूचितम् ॥ तत्र प्रथमा ॥ अदि॑ति॒र्द्यौरदि॑ितिर॒न्तरि॑दा॒मदि॑तिर्माता स पि॒ता स पुत्रः । विश्वे॑ दे॒वा अदि॑ति॒ पञ्च॒ जना॒ा अदि॑तिर्जातमदि॑ति॒र्जनि॑तम् ॥ १ ॥ अदि॑ितिः । द्यौः । अदि॑ितिः । अन्तरिक्षम् । अदि॑तिः । मा॒ता । सः । पि- ता । सः । पुत्रः 1 विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जना॑ः । अदि॑तिः । जा॒तम् । अदि॑ितिः । जनित्वम् ॥ १ ॥ । S' बुभ्रा lior बुध्या ८८