पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ° १. सू°४.] ३२३ सप्तमं काण्डम् । ३२३ " सिद्धां वा नावम् अनागस: अनपराधा वयं स्वस्तये क्षेमाय आ रुहेम आरूढा भूयास्म । * “लिङयाशिष्यङ्' । “अन्येषामपि दृश्यते इति साहितिको दीर्घः हु ॥ अस्य मन्त्रस्य दीक्षायां कृष्णाजिनादिरू- ढेन यजमानेन जप्यत्वाद् नौशब्देन कृष्णाजिनं विवक्ष्यते । तथा च ऐ- तरेयब्राह्मणे । “कृष्णाजिनं वै सुतर्मा नौः” इत्याम्नातम् [ ऐ॰ ब्रा॰ १. १३] | सर्वाणि विशेषणानि पूर्ववद् योज्यानि ॥ चतुर्थी ॥ "9 वाज॑स्य॒ नु म॑स॒वे मा॒तरि॑ म॒हीमदि॑ति॒ नाम॒ वच॑सा करामहे । यस्या॑ उ॒पस्य॑ उ॒र्व॑प॒न्तरि॑नं॒ सा नः शर्म॑ त्रि॒वरू॑षं नि य॑च्छात् ॥ २ ॥ । वाज॑स्य । नु । प्र॒ऽस॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । करामहे । यस्या॑ः । उ॒पस्थे॑ । उ॒रु । अन्तरि॑क्षम् । सा । नः । शर्म॑ । त्रि॒िऽवरू॑थम् । नि । य॒च्छा॒ात् ॥ २ ॥ "" 66 वाजस्य अन्नस्य प्रसवे उत्पत्ती उत्पत्त्यर्थम् । दिस्वरेण अन्तोदात्त: । g" थाथ इत्या- मातरम् अन्नस्य निर्मात्रीं महीम् महतीम् अदितिं नाम । अदितिः अदीना अखण्डनीया वा । एवंनामधेयाम् ए- वंस्वभावां नावं वा नु क्षिप्रं वचसा स्तुत्या करामहे कुर्महे | अदितिं नावं वा अन्नमसवार्थ स्तुम इत्यर्थः । करोतेर्व्यत्ययेन शप् ँ । य- स्या अदित्या उपस्थे उत्सङ्गे समीपे उरु विस्तीर्णम अन्तरिक्षम आकाशं वर्तते सा अदितिः नः अस्माकं त्रिवरूपम् त्रिभूमिकं त्रिकक्ष्यं शर्म गृहं नि यच्छात् नियच्छतु प्रयच्छतु । यमेर्लेटि आडागमः । 66 'इषुगमियमां छः" इति छादेशः ४ ॥ पञ्चमी । दितैः पु॒त्राणामदि॑ितेरकारिष॒मव॑ दे॒वाना॑ बृह॒ताम॑न॒र्मणा॑म् । १ KP PJ Cr उपऽस्थेः. We with Siyana २ AR कार्य Buncertain. Wo with BDKK SPPJVC..