पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० ९.] ३२४ सप्तमं काण्डम् । ३२५ पातसमुदाय: अप्यर्थे । कश्चिदपि नमसा नमस्कारेण हविर्लक्षणेन अन्ने- न वा न संभाव्योस्ति । अतो देवानामेव यष्टव्यत्वेन प्रशस्तत्वात् तदर्थे- नानेन यागेन अस्माभिरभिलषितसिद्धिराशास्यते ॥ षष्ठी ॥ भद्रादधि श्रेयः प्रेहि॒ि बृह॒स्पति॑ पु॒रए॒ता ते॑ अस्तु । अये॒मम॒स्या वर॒ आ पृ॑थि॒व्या आरेशत्रुं कृणुहि॒ सर्वे॑वीरम् ॥ १ ॥ भ॒द्रात् । अधि॑ । श्रेय॑ः । म । इ॒ह । बृह॒स्पति॑ः । पु॒र॒ऽए॒ता । ते । अ॒स्तु । अथ॑ । इ॒मम् । अ॒स्याः । वरे॑ । आ । पृथि॒व्याः । आ॒रेऽश॑त्रुम् । कृ॒णुहि॒ । सर्वेऽवीरम् ॥ १ ॥ हे वस्त्रधनादिलाभकाम पुरुष भद्रात् मङ्गलात् संपदः । अधिः पञ्चम्यर्थानुवादी ४ । श्रेयः संपदं प्रेहि मगच्छ प्रकर्षेण गच्छ । उत्तरोत्तरं संपदं प्राप्नुहीत्यर्थः । यद्वा भद्रात् भन्दनीयाद् अस्मात् स्था- नात् श्रेय: अतिशयितलाभहेतुं स्थानं प्रेहि | देशान्तरं गच्छतः पुरुषस्य बृहस्पतिसाहायकं दर्शयति । ते लाभार्थ गच्छतस्तव बृहस्पतिः बृहतां दे- बानां पति: हिताचरणेन पालयिता एतन्नामा देव: पुरएता अस्तु पु- रतो गन्ता अग्रगामी भवतु । * प्राप्तकाले लोट् । पुरोव्य- 66 यम्” इति गतित्वाद् "गतिकारकोपपदात् कृत्" इति उत्तरपदप्रकृतिव रत्वम् ॥ उत्तरार्धे बृहस्पतिः संबोध्यते । हे बृहस्पते त्वम् अथ पुरतो गमनानन्तरम् इमं लाभकामं पुरुषम् अस्याः पृथिव्या वरे उत्कृ- ष्टे लाभस्थाने आ । * उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । आ- स्थापय । यस्मिन् प्रदेशे धनादिलाभविशेषो भवति तत्र इमं पुरुषं सं- योजयेत्यर्थः । अपि च सर्ववीरम् सर्वे वीराः पुत्रभृत्यादयः [ यस्य] ता- दृशं शत्रुम आँरे दूरे कृणुहि कुरु | लाभस्थाने लाभकामस्य पुरुषस्य ये परिपन्थिनो जनाः तान् दूरम् अपसारयेत्यर्थः । साकरणयोश्च । धिन्विकृण्व्योर च” इति उप्रत्ययः । याच्छन्दसि वा वचनम्” इति हेर्लुगभावः ॥ 5. कृवि हिं- 66 66 उतश्च प्रत्य- 1S' 'साहाय्यकं.