पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये सप्तमी ॥ प्रप॑धे प॒याम॑जनिष्ट पू॒षा प्रप॑धे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्ये॒ आ च॒ परा॑ च चरति प्रजानन् ॥ १ ॥ प्रऽप॑थे । प॒थाम् । अ॒ज॒नष्ट॒ । पू॒षा । प्रऽप॑थे । दि॒वः । मऽप॑थे । पृथि॒व्याः | उ॒भे इति॑ । अ॒भि । प्रि॒यत॑मे॒ इति॑ प्रि॒यत॑मे । स॒धस्ये॒ इति॑ स॒धऽस्थे॑ । आ । च॒ । परा॑ । च॒ । च॒रति॒ । प्र॒ऽजानन् ॥ १ ॥ ३२६ पूषा पोषको मार्गरक्षको देवः पथाम् मार्गाणां प्रपये मकान्तः प थ: । मार्ग अजनिष्ट प्रादुर्भवति रक्षणार्थम् । तथा पूषैक दिवः धुलोकस्य प्रपये प्रवेशद्वारे पृथिव्याः प्रपये प्रवेशद्वारे । अजनिष्ट इति संबन्ध: । सोयं पूषा प्रियतमे अतिशयेन प्रीतिमत्यौ सधस्थे पर स्परं सहैव अवस्थिते । “सध मादस्पयोश्छन्दसि " इति सहस्य सधादेशः । तादृश्यौ उभे द्यावापृथिव्यौ अभिलक्ष्य प्रजानन् य- जमानैः कृतं कर्म तत्फलं च प्रकर्षेण विद्वान् आ चरति च परा च- रति च दिवः पृथिवीम् आगच्छति पृथिव्या दिवं परागच्छति । सर्व- माणिकृतस्य कर्मण: साक्षी भूवा उभयोरपि लोकयोर्गमनागमने करो- तीत्यर्थः ॥ अष्टमी | पूषेमा आशा अनु॑ वेद॒ सर्वाः सो अस्माँ अभ॑यतमेन ने॒षत् । स्व॒स्ति॒दा आपृ॑णि॒ सर्व॑वी॒रोम॑यु॒च्छन् पुर ए॑तु॒ प्रजा॒नन् ॥ २ ॥ पू॒षा । इमा: । आशः । अनु॑ । वेद॒ । सर्वा॑ः । सः । अस्मान् । अभ॑य॒ऽत- मेन । नेषत् । स्व॒स्ति॒ऽदा । आघृ॒णिः । सर्व॑ऽवीरः । अम॑ऽयुच्छन् । पुरः । एतु । प्र॒ऽजा- नन् ॥ २ ॥ पूषा पोषको देवः इमा: सर्वा आशा: दिश: अनु वेद अनुक्रमेण जानाति । स पूषा. देवः अस्मान् अभयतमेन अत्यन्तभयरहितेन मार्गेण