पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० १०.] ३२५ सप्तमं काण्डम् । ३२७ नेषत् नयतु । नयतेलेटि "सिब्बहुलम्" इति सिप् । अडा- गमः । सोयं पूषा स्वस्तिदा: क्षेमस्य कल्याणस्य वा दाता आ- घृणिः आगतदीप्तिर्व्याप्तदीप्तिर्वा सर्ववीरः सर्वैवीरैः पुत्रादिभिर्युक्तः अप्रयु- & युद्ध प्रमादे ? । प्रमादम् अकुर्वन् प्रजानन् अ- स्मदभिप्राय मार्ग वा प्रकर्षेण जानन् पुर एतु पुरतो गच्छतु । अस्म- दभिलषितसाधनायेति शेषः ॥ च्छन् । नवमी ॥ पूषन् तव॑ व्र॒ते व॒यं नं रि॑िष्ये क॒दा च॒न । स्तो॒तार॑स्त इ॒ह स्मा॑सि ॥ ३ ॥ पू॒ष॑न् । तव॑ । व्र॒ते । व॒यम् । न । रिष्येम् | क॒दा । च॒न । स्तो॒तार॑ । । इ॒ह । स्म॑सि॒ ॥ ३ ॥ हे पूषन् पोषक देव तव व्रते कर्मणि यागरूपे वर्तमाना वयं कदा चन कदाचिदपि न रिष्येम न विनश्येम । पुत्रमित्रादिभिर्धनेन च वि- युक्ता मा भूमेत्यर्थः । *रुष रिष हिंसायाम | देवादिकः ॐ ॥ किं च इह अस्मिन् कर्मणि इदानीं वा ते तव स्तोतार: स्तुतिं कुर्वाणा: स्मसि भवामः ॥ दशमी ॥ परि पूषा पु॒रस्ता जस्तै दधातु दक्षिणम् । पुन॑नो॑ न॒ष्टमाज॑तु॒ सं न॒ष्टेन॑ ग॒मेमहि ॥ ४ ॥ । परि॑ । पू॒षा । प॒रस्ता॑त् । हस्त॑म् । धा॒तु । दक्षिणम् । पुन॑ः । नः॒ । न॒ष्टम् । आ । अज॒तु । सम् । न॒ष्टेन॑ । ग॒म॑म॒हि॒ ॥ ४ ॥ पूषा पोषको देवः परस्तात् परत: अतिदूराद् देशादपि । धनम् आ- दातुम् इति शेष: । दक्षिणं हस्तं परि दधातु प्रसारयतु । यत्रयत्र अ- स्माकं दित्सितं धनम् अस्ति तद् धनम् अस्माकं दातुं तत्रतत्र देशे १ KKV ना. We with ABBDR SC २ BDK K SP P V C. Cr पुर". २ W with ARJ.