पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२७ अथर्वसंहिताभाष्ये हस्तं प्रसारयतु इत्यर्थः । नः अस्मान् नष्टं धनं पुन: आजतु पुनराग- अज गतिक्षेपणयोः । न केवलम् आगमनं किं तु नष्टेन पुनरागतेन धनेन सं गमेमहि संगच्छेमहि । धनेन संगता भवेमेत्यर्थः । संपूर्वाद् गमेरात्मनेपदिनो “लिङयाशिष्यङ्" इति ४ अङ् प्रत्ययः ॥ [ इति ] सप्तमे काण्डे प्रथमेनुवाके द्वितीयं सूकम् ॥ “यस्ते स्तनः ” इति तृतीयं सूक्तम् । तत्र जम्भगृहीतबालकभैषज्यार्थ " 'यस्ते स्तनः " इत्यनया स्तनम् अभिमन्त्र्य बालं पाययेत् ॥ 66 तथा तत्रैव कर्मणि प्रियंगुतण्डुलानाम् उपरि क्षीरं दुग्ध्वा अनया ऋचा अभिमन्त्र्य व्याधितं पाययेत् ॥ सूत्रितं हि । यस्ते स्तन इति जम्भगृहीताय स्तनं प्रयच्छति । प्रि- यंगुतण्डुलान् अभ्यवदुग्धान् पाययति" इति [कौ० ४.४] ॥ अशनिनिवारणकर्मणि “यस्ते पृथु स्तनयित्लुः” इति ॠचा अश- निम् उपतिष्ठेत । “यस्ते पृथु स्तनयितुरित्यशनिम्” इति [को॰ ५ . २ . ] सूत्रात् ॥ 66 तथा ग्रहयज्ञे अनया हविराज्यहोमसमिदाधानोपस्थानानि केतवे कु- र्यात् । तद् उक्तं शान्तिकल्पे । 'यस्ते पृथु स्तनयिलुः [७. १२ ] देवो देवान् ” [१७.१.३०] इत्यादि " केतुं कृण्वन्त्रकेतवे [ ऋ० १. ६.३] इति केतवे" [ शा० क° १५] इत्यन्तम् ॥ " 66 तथा उपाकर्मणि अनया आज्यं जुहुयात् ॥ "सभा च मा” इति पञ्चर्चेन सभाजयकर्मणि क्षीरौदनं पुरोडाशं रसान् वा संपात्य अभिमन्त्र्य अशीयात् ॥ तथा तत्रैव कर्मणि पञ्चर्ने जपन् सभास्तम्भं गृह्णीयात् ॥ तथा तत्रैव कर्मणि अनेन पञ्चर्चेन सभाम उपतिष्ठते ॥ "सभा च मेति भक्षयति । स्थूणे गृह्णाति उपतिष्ठते” इति [ कौ ५.२] कौशिकसूत्रान् ॥ ० कृत्याप्रतिहरणकर्मणि कृत्यानि:सारणानन्तरं स्वगृहम आगत्य यथा 66