पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० अथर्वसंहिताभाष्ये । कल्याणदान: सुधनो वा । येन च स्तनेन विश्वा विश्वानि वार्याणि व रणीयानि धनानि पुष्यसि पोषयसि | स्तोतृभ्य इति शेषः । तं ताह- शगुणोपेतं स्तनम् इह अस्मिन् जम्भगृहीते बालके धातवे धातुं पातुं योग्यं कः कुरु । धेट् पाने । तुमर्थे तवेन् प्रत्ययः । करिति । मन्त्रे घस” इति हेर्लुकि गुणे "हल्ड्या” इत्यादिना सिपो लोपे “अमाड्योगेपि” इति अडभावे रूपम् ४ ॥ द्वितीया || ८८ करोतेश्छान्दसे लुङि यस्तै पृथु स्त॑नयि॒त्र्य' ॠष्वो दैव॑: के॒तुर्वश्व॑मा॒भूष॑ती॒दम् । मा नो वधीर्विद्युत देव स॒स्य॑ मोत बंधी र॒श्मिभिः॒ सूर्य॑स्य ॥ १ ॥ यः । ते॒ । पृ॒थुः । स्त॒न॒यत्नुः । यः । ऋ॒ष्वः । दे॑वः॑ः । के॒तुः । विश्व॑म् । आ॒ऽभू- ष॑ति । इ॒दम् । 1 मा । नः । व॒धीः । वि॒िऽद्युता॑ । दे॒व । स॒स्यम् । मा । उ॒त । वृधीः । र॒श्मिऽ- भिः । सूर्य॑स्य ॥ १ ॥ रु- " हे देव द्योतनशील पर्जन्य ते तव स्वभूतः पृथुः विस्तीर्णो महान् यः स्तनयिलुः गर्जनरूपशव्दं कुर्वन् अशनि: यश्च रुँवः बाधकः । ष हिंसायाम । औणादिक: कन् प्रत्ययः । दैव: देवस्य पर्जन्य- स्य संबन्धी देवेर्निर्मितो वा । * " देवाद् यञञौ ” इति अञ् प्र- त्ययः । केतुः अनर्थज्ञापकोशनिः केतुरूपो वा ग्रहः इदं परिह- श्यमानं विश्वम् आभूषति व्याप्नोति । बाधितुम् इति शेषः । हे देव पर्जन्य विद्युता तादृश्या अशन्या नः अस्माकं सस्यम् शाल्यादिकं मा वधी: मा बाधिष्ठाः । * इन्तेर्लुङि वधादेश: X । उत अपि च सूर्यस्य सवितुः रश्मिभिः संतापकरैः किरणैः अस्मदीयं सस्यं मा व- धी: मा शोषय | अयम् अर्थ: । क्षेत्रेषु उप्ता: शाल्यादयः अतिवृष्ट्य- नावृष्टिभ्यां बाध्यन्ते । सस्यविनाशेन तदुपजीविन्यः प्रजा विनश्यन्ति । अतोत्र तत्परिहार: प्रार्थत इति ॥ १ AC °र्यो ऋथ्यो. ' K K V यो ष्वा. We with BÉDRS.