पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् | तृतीया || सभा च॑ मा॒ा समितिश्चावतां प्र॒जाप॑तेर्दुहि॒तरौ संविदा॒ने । येना॑ संगच्छा उप॑ मा॒ा स शिक्षाञ्चारु॑ वदानि पितर॒ संगतेषु ॥ १ ॥ स॒भा । च॒ । मा॒ा । समऽइ॑तिः । च॒ । अ॒वाम् । प्र॒जाऽप॑तेः । दुहि॒तये॑ । स॑वि॒द॒ाने इति॑ स॒मऽवाने । येन॑ । स॒म॒ऽगच्छै । उप॑ । मा । सः । शिक्षात् । चारु॑ । व॒ानि॒ | पि॒ितरः । सम्ऽर्गतेषु ॥ १ ॥ [अ० १. सू० १३.]३२t ३३१ सभा विदुषां समाज: । समितिः संयन्ति संगच्छन्ते युद्धाय अत्रेति स मितिः संग्रामः । सांग्रामीणजनसभेत्यर्थः । यद्वा संग्रामनामानि यज्ञना- मानि भवन्तीति यास्केनोक्तत्वात् समितिशब्देन यज्ञ उच्यते । रस्परसमुच्चयार्थी चकारौ ४ । ते उभे अपि मा मां वादिनम् अ- प- वताम् रक्षताम् । कीदृश्यौ । प्रजापतेः सर्वजगत्त्रष्टुर्दुहितरौ पुत्र्यौ । चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यमेव वा । सा ब्रूते यं स धर्म: स्यात् [ या° स्मृ॰ १, ९ ] इति "यद् आर्या: प्रशंसन्ति स धर्मः" इति [च ] स्मृतेर्विद्वत्संघस्य स- भावात् तदुक्तेश्च सर्वशास्त्रनिर्णीतधर्मरूपत्वात् प्रजापतिपुत्रीत्वव्यपदेशः । ते च सभे संविदाने अस्मद्रक्षणविषयम् ऐकमत्यं प्राप्ते । ॐ विदेः सं- पूर्वात् "समो गम्मृच्छि" इति आत्मनेपदम् ॐ । किं च येन वा- दिना संगच्छे वक्तुं संगतो भवानि । ४ पूर्ववद् आत्मनेपदिनो ग- मेर्लोटि रूपम् । स विद्वान् मा मां संगतम् उप शिक्षात् उ- पेत्य शिक्षयतु । समीचीनं वादयत्वित्यर्थः । शिक्ष विद्योपादाने । ण्यन्तात् लेटि आडागमः ४ । यद्वा शिक्षात् मां वक्तुं शक्तं समर्थम् इच्छतु । ॐ शके: सन्नन्तात् पञ्चमलकारे रूपम् । अयम् अर्थः । येन सह अहं विवदे स स्वयं मदुक्तवचनविघटनपटूनि वाक्यानि अभाषमाणः प्रत्युत मामेव स्ववचनतिरस्कारकवाक्यवादिनं करोत्विति । १ BK आरूं. h