पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १. सू० १४.]३२९ सप्तमं काण्डम् | ३३३ दिनां वर्च: तेजो वैदुष्यजनितप्रभावविशेषम् विज्ञानम् वेदशास्त्रार्थविषयं ज्ञानं च । विज्ञानं शिल्पशास्त्रयोरिति तडिदः । तद् अहम् आ ददे स्वीकरोमि । अपहरामीत्यर्थः । * ददाते: “आङो दोनास्यविहरणे” इति आत्मनेपदम् । किंबहुना । हे इन्द्र | इन्द्रस्यैव वागनु- शासनकर्तृत्वात् सभाजयकर्मणि तस्यैव प्रार्थनम् । तथा च तैत्तिरीयके । “ ते देवा इन्द्रम् अब्रुवन्निमां नो वाचं व्याकुरु" इति प्रक्रम्य आम्ना- तम् । 'ताम् इन्द्रो मध्यतोवक्रम्य व्याकरोत् तस्माद् इयं व्याकृता वाग् उद्यते” इति [ तै० सं० ६.४.७.३] । तादृशेन्द्र अस्याः पुर स्थितायाः सर्वस्याः संसद: सभाया भगिनम् । भगो भाग्यं वैदुष्यलक्षणं जयलक्षणं वा । तन्तं [ मां ] कृणु कुरु | सर्वामपि सभां मदेकवाक्य श्रवणपरा कुर्वित्यर्थः । अथवा भगो भागः । तद्वन्तं कुरु | सर्वस्या: सभाया यावती वैदुष्यकृता संभावना तावद्भागभाजं कुर्विति इन्द्रः प्रार्थ्यते ॥ 66 ० ● षष्ठी ॥ यद् वो॒ो मनः॒ परा॑गतं॒ यद् व॒द्धमह॒ वे॒ह वा॑ । तद् व॒ आ व॑र्तयामसि॒ मयि॑ वो रमतां मन॑ः ॥ ४ ॥ यत् । वः॒ । मन॑ः । परा॑ऽगतम् । यत् । ब॒द्धम् । इ॒ह । वा । इ॒ह । वा । तत् । वः । आ । वर्तयामसि | मायै । वः । रमताम् । मन॑ः ॥ ४ ॥ 1 हे सभासदः वः युप्माकं यन्मनः मानसं परागतम् अस्मत्तः परागत्य अन्यत्र गतम् । अस्मदनभिमुखम् इत्यर्थः । यच्च मनः इह वा अस्मिन् वा विषये बद्धं संसक्तम् । मनसो विषयानासङ्गेन अनवस्थानात् तत्सं- बन्धान सर्वान् पदार्थान् अभिनयेन दर्शयति । इह वा इह वेति अस्मद्व्यतिरिक्तसर्वविषयेषु संसक्तं वर्तते । तत् तादृशं वः युष्माकं मनः आ वर्तयामसि अस्मदभिमुखं कुर्मः । आवर्तितं च वो मनः मयि र मताम् मदनुकूलार्थचिन्तापरं भववित्यर्थः || सप्तमी ॥ यथा॒ सूर्यो नक्ष॑त्राणामु॒द्य॑स्तेजस्याद॒दे ।