पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ अथर्वसंहिताभाष्ये ए॒वा स्त्रि॒णां च॑ पुंसां च॑ द्वष॒तां वर्च॒ आ द॑दे ॥ १ ॥ यथा॑ । सूर्य॑ः । नक्ष॑त्राणाम् । उत्ऽयन् | तेजसि । आ॒ऽद॒दे । ए॒व । स्त्रीणाम् । च॒ । पुंसाम् । च॒ । द्वि॒िष॒ताम् । वचैः । आ । दु- दे॒ ॥ १॥ उद्यन उदयं प्राप्नुवन् सूर्य: नक्षत्राणाम् तारकाणां तेजांसि दीप्तिं यथा आददे आदत्ते निस्तेजस्कानि करोति । ४ छान्दसो लिट् । अन्त्यलोपश्छान्दसः एव स्त्रीणां पुंसां च द्विषताम् “पुमान् स्त्रिया” इति वर्च: तेजः पराभिभवनसामर्थ्यम् । आ पुंसो डिषत एकशेषः । ददे स्वीकरोमि अपहरामि । ददातेर्वर्तमाने लटि उत्तमैकवचने रूपम् ॥ एवम् । । स्त्रीणां द्विषतीनां पुरुषाणां द्विषतां च । अष्टमी । याव॑न्तो मा स॒पना॑नामा॒यन्तै प्रति॒पश्य॑थ । उ॒द्यन्ये॑ इव सु॒प्तानो॑ द्वष॒तां वर्च॒ आ द॑दे ॥ २ ॥ याव॑न्तः । मा॒ा । स॒ऽपना॑नाम् । आ॒ऽयन्त॑म् । प्र॒ति॒ऽपश्य॑थ । उ॒ऽयन् । सूर्य॑ऽइव | सु॒प्ताना॑म् | द्वि॒ष॒ताम् । वच॑ । आ । दु॒द्रो॒ ॥ २ ॥ । सपलानाम् शत्रूणां मध्ये यावन्तः यत्परिमाणाः शत्रवो यूयम् आ- यन्तम् युद्धाय युष्मान् अभिगच्छन्तं मा मां प्रतिपश्यत प्रतिकूलं निरी- क्षध्वम् । : अतिसर्गे लोट् । द्विषताम् तेषां प्रतिकूलं पश्य- तां शत्रूणां युष्माकं वर्च: पराक्रमरूपं तेज: आ ददे अपहरामि । तत्र दृष्टान्तः । उद्यन् उदयं गच्छन् [ सूर्य इव] सूर्यो यथा सुप्तानाम् उ- दयकाले स्वपतां जनानां वर्च: अपहरति तद्वत् । सूर्यस्योदये अस्तमये वा स्वपतां पुरुषाणां वर्चसः सूर्येण अपहृतत्वात् तत्समाधानाय आपस्त- म्बेन प्रायश्चित्तरूपाणि कर्माणि विहितानि । स्वपन्नभिनिर्मुक्तोनाश्वान् "वाग्यतो रात्रिम् आसीत । श्वोभूत उदकम उपस्पृश्य वाचं विसृजेत् । 66 IS नमुको.