पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ अथर्वसंहिताभाष्ये अथ॑ । अ॒स्मभ्य॑म् । स॒वि॒ितः । वार्या॑णि । दि॒वःऽदि॑वः । आ । सु॒व॒ । भूरि॑ । पश्वः ॥ ३ ॥ हे देव द्योतनात्मक सवितः प्रथमाय । प्रथम इति मुख्यनाम तमाय प्रकृष्टतमाय पित्रे पालकाय यजमानाय सावीर्हि प्रेरयैव । फलम् इति शेष: । सामान्येनोक्तं विशिनष्टि । अस्मै पुष्टिकामाय वर्ष्माणम् देहम । पुत्रपौत्रादिलक्षणां संततिम् इत्यर्थः । तां प्रयच्छेति संबन्धः । अस्मै पुष्टिकामाय यजमानाय वरिमाणम् उरुत्वं च प्रयच्छ । यड्वा व- र्माणम् देहं यथा यजमानस्य देहः पुत्रपौत्रादिजननक्षमो भवति तथा कुरु । वरिमाणम् पुत्रपौत्रादिलक्षणम् उरुत्वं प्रयच्छेति ॥ अथ अनन्तरं हे सवितः अस्मभ्यं वार्याणि वरणीयानि फलानि आ सुवेति क्रियया संबन्ध: । अपि च दिवोदिवः दिवसान् दिवसान् प्रतिदिवसम् । “दिवे- दिव आ सुव” इति शाखान्तरे [ ऋ० ३. ५६. ६ ] पठ्यते । भूरि भू- रीन् । सुपो लुक् । पश्वः पशून् ।

  • छान्दसो यण्

आदेशः । आ सुव अस्मदभिमुखं प्रेरय ॥ 66 चतुर्थी ॥ दमू॑ना दे॒वः स॑वि॒ता वरे॑ण्यो दधद् रत्नं ददा॑ पि॒तृभ्यः॒ आयु॑षि । पिब॒त् सोम॑ म॒मद॑देनमि॒ष्ठे परि॑ज्मा चित् क्रमते अस्य॒ धर्म॑णि ॥ ४ ॥ दमू॑नाः । दे॒वः । स॒वि॒ता । वरे॑ण्यः । दध॑त् । रत्न॑म् । ददा॑म् | पि॒तृ॒ऽभ्य॑ । आयूंषि । । पिवा॑त् । सोम॑म् । म॒मद॑त् । एनम् । इष्टे | परि॑िज्मा | चित् । क्रमते । अस्य | धर्मणि ॥ ४ ॥ दमूना: दान्तमना दानमना वा वरेण्यः वरणीयः सविता सर्वप्रेरको देवः रत्नम् रमणीयं धनं दक्षम् । बलनामैतत् । वलं च दधत् प्रय- च्छन् तथा पितृभ्यः पूर्वेभ्य: सकाशात आयूंषि शतसंवत्सरपरिमितम् आ- युः । तपनपरिस्पन्दवाहुल्यात् तत्कालावच्छिन्नस्यापि आयुषो बहुत्वम् पु- त्रपौत्राद्यपेक्षया वा बहुवचनम् । तादृशम् आयुश्च दधत् विदधत् म-