पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० १६.]३३१ सप्तमं काण्डम् | ३३९ मदन मदयतु । यच्छन् सोमम् अभिषुतं पिबात् पिबतु । पातेलेंटि आडाग- मः । पीतः स सोमः इष्टे यागे सवितृदेवत्ये एनं सवितारं म- माद्यतेर्ण्यन्तात् लुङि चङि रूपम् । वाक्यादित्वात् न निघातः 'चड्यन्यतरस्याम्” इति उपोत्तमस्य उदात्तत्वम् । तः परिज्मा चित् परितो व्यापनशीलोपि स सोमः अस्य सवितुः ध- र्मणि धारके स्थाने जठररूपे क्रमते अप्रतिबद्धो वर्तनाम् । तिसर्गतायनेषु क्रमः " इति आत्मनेपदमः ॥ "वृ- पञ्चमी ॥ त- तां स॑वतः स॒त्यस॑वा॑ सुचि॒त्रामा॑हं वृ॑णे सुम॒तिं वि॒श्ववा॑राम् । याम॑स्य॒ कण्वो॒ो अदु॑ह॒त् प्रपी॒नां स॒हस्र॑धारां महि॒षो भगा॑य ॥ १ ॥ ताम् । स॒वि॒तः । स॒त्यऽस॑वाम् । सु॒ऽचि॒त्राम् । आ । अ॒हम् । वृणे। सु॒ऽम॒- तिम् । विश्वऽवा॑राम् । याम् । अ॒स्य॒ । कण्व॑ः । अदु॑ह॒त् । प्रऽपी॒नाम् । स॒हस्र॑ऽधाराम् । म॒हि॒षः । भगा॑य ॥ १ ॥ हे सवितः प्रसवितः सर्वस्य प्रेरयितः तां तादृशीम उत्तरार्धे वक्ष्य- माणगुणां त्वदीयां सत्यसवाम् सत्यानुज्ञां सुचित्राम् सुष्ठ चायनीयां वि- श्ववाराम सर्वैर्वरणीयां सुमतिम शोभनाम् अनुग्रहबुद्धिम् । "म- नक्तिव्याख्यान " इति उत्तरपदान्तोदात्तत्वम् । ताम् अहम् आ वृणे आभिमुख्येन यांचे । याम् अस्य सवितुः संबन्धिनीं सुमतिं महि- षः । महन्नामैतत् । महान् कण्वः एतन्नामा ऋषि: अदुहत् दुग्धवान् । स्वाधीनां कृतवान् इत्यर्थ: । कीष्टशीम् । प्रपीनाम् प्रवृद्धाम् । ॐ प्या- यतेः पीभावः । सहस्रधाराम बहुधाराम । * सुमतेसाह- श्यविवक्षया पीनत्वादिविशेषण [योगाद् ] दुहिधातुप्रयोगः ॐ । किमर्थ दुग्धवान् । भगाय भाग्याय । यां कण्वो दुग्धवान तां सवितृसंबन्धिनीं सुमतिम् आ वृणे इति संबन्धः ॥ १ B त्रामहं. 1 S' सभजयाचं.