पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० अथर्वसंहिताभाष्ये षष्ठी ॥ बृह॑स्पते॒ सर्वतर्वर्धयैनं॑ ज्योतयैनं मह॒ते सौभ॑गाय । संशितं चित् संतरं सं शिशाधि विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ॥ १ ॥ बृह॑स्पते । सवि॑तः । व॒र्धय॑ । ए॒न॒म् । ज्यो॒तय॑ । ए॒न॒म् । म॒ह॒ते । सौभ॑गाय । सम्ऽशितम् । चित् । समऽतरम् | सम् । शिशाधि | विश्वे॑ । ए॒न॒म् । अ- नु॑ । म॒द॒न्तु॒ । दे॒वाः ॥ १ ॥ हे बृहस्पते बृहतां महनामपि देवानां पते हे सवितः प्रसवितः एतन्ना- मक देव । “नामन्त्रिते समानाधिकरणे” इति पूर्वस्यामन्त्रितस्य अविद्यमानत्वप्रतिषेधाद् द्वितीयम् इदं सवितृपदं निह॑न्यते । नं सूर्योदयपर्यन्तं सुप्तं ब्रह्मचारिणं यजमानादिकं वा वर्धय । उदयकाले स्वपत: पुरुषस्य दोषश्रवणात् तद्दोषपरिहारेण एनं यजमानं समर्धये- त्यर्थः । द्वितीयस्य आमन्त्रितस्य अविद्यमानत्वाद् वर्धयेति पदं न निहन्यते । किं च एनं यजमानादिकं महते प्रभूताय सौभगा- य सौभाग्याय द्योतय । यथा महत् सौभाग्यं भवति तथा दीप्तं कुर्वित्य- र्थः । अपि च संशितम् संशितव्रतं चित् अपि व्रतवन्तमपि संतरम् स ते अम् " म्यक् अतिशयेन । ॐ समस्तरपि प्रत्यये “अमु च च्छन्दसि” इति सं शिशाधि सम्यक् तीक्ष्णीकुरु । संतरं सं शिशाधि इत्युपसर्गद्वयश्रुतेर्जतलोपपरिहारेण यजमानादेः कर्मसाफल्यम् आशास्य- शो तनूकरणे । लोटि "बहुलं इन्दसि " इति शपः श्रुः । इत्त्वं च अभ्यासस्य छान्दसम् । “ वा छन्दसि” इति अपित्वे प्रतिषि- द्धे पित्वेन ङित्त्वाभावात् “अङितश्च" इति हेर्धिभावः । विश्वे सर्वे देवाः एनं यजमानादिकम् अनु मदन्तु अनुमोदन्ताम् । सा- धीयान् असाविति सर्वेऽनुमन्यन्ताम् इत्यर्थः ॥ किं च सप्तमी ॥ । X धाता द॑धातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पति॑ । स नः॑ पू॒र्णेन॑ यच्छतु ॥ १ ॥