पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० १७.]३३३ सप्तमं काण्डम् | धा॒ता । दूधातु । नः । र॒यिम् | ईशा॑नः जग॑तः । पतिः । सः । नः॒ । पू॒र्णेन॑ । य॒च्छ॒तु ॥ १ ॥ ३४१ धाता विश्वस्य धारयिता एतन्नामको देवः नः अस्मभ्यं रयिम् ध- नं दधातु विदधातु प्रयच्छतु । कीदृशः । ईशानः सर्वार्थसाधनश- ४ अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वम् । & “षष्ठ्या: पतिपुत्र ” इति सत्वम् छु । ० जगतस्पतिः किं च पालयिता । स धाता देवः नः अस्मान् पूर्णेन आप्यायितेन समृद्धेन धनेन यच्छतु नियच्छतु । योजयत्वित्यर्थः ॥ अष्टमी ॥ धा॒ाता द॑धातु दाशुषे प्राच जीवातुमक्षिताम् । व॒यं दे॒वस्य॑ धीमहि सुम॒तं वि॒श्वरा॑धयः ॥ २ ॥ धा॒ता । द॒धा॒तु॒ । दा॒शुषे॑ । प्राची॑म् । जी॒वातु॑म् । अक्षिताम् । व॒यम् । दे॒वस्य॑ । ध॒म॒हि॒ । सु॒ऽम॒तिम् । वि॒श्वरा॑धसः ॥ २ ॥ धाता सर्वस्य विधारको देवः दाशुषे हविर्दत्तवते मह्यं यजमा- नाय प्राचीम् प्रकृष्टगमनाम् अस्मदभिमुखगमनां जीवातुम् जीवनकारि- णीम् । जीवे: आतुप्रत्ययः । अक्षिताम् अनुपक्षीणाम् । सुमति इति अनुषज्यते । तां दधातु धारयतु ॥ वयमपि विश्वरा- धसः सर्वधनस्य अतिप्रभूदधनस्य देवस्य धातुः सुमतिम कल्याणीं तिम अनुग्रहात्मिकां धीमहि धारयेम । *धी आधारे । श्यंनो यद्वा दाशुषे यजमानाय प्राचीम् प्राञ्चनाम् अनुगुणां जी- वातुम् जीवनाथ पर्याप्ताम् अक्षितां रयिं दधातु ॥ वयमपि धनमदानार्थं धातुः सुमतिं धीमहि ध्यायेम । याचेमेत्यर्थः ॥ नवमी ॥ धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दाशुषे॑ दुरोणे । तस्मै॑ दे॒वा अ॒मृतं॒ सं व्य॑य॑न्तु॒ विश्वे॑ दे॒वा अदि॑तः स॒जोषा॑ ॥ ३ ॥ 1S' सत्व° for सर्व 2S शपो for श्यनो.