पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४ अथर्वसंहिताभाष्ये तथा तत्रैव कर्मणि अनया लोहिताजमांसं संपात्य अभिमन्त्र्य भक्षयेत् ॥ तथा तस्मिन्नेव कर्मणि अनया ऋचा उदकुम्भं सुराकुम्भं वा संपात्य अभिमन्त्र्य प्रजाकामां स्त्रियं परिभ्राम्य अग्रे निनयेत् ॥ " 66 तथा अनया ओदनं सुरां प्रपां वा संपात्य अभिमन्य प्रजाकामायै दद्यात् ॥ सूत्रितं हि । “प्रजापतिरिति प्रजाकामाया उपस्थे जुहोति । लोहि- ताजाया: पिशितान्याशयति प्रपान्तानि ” इति [ कौ० ४.११] ॥ तथा अभिलषितफलकाम: अनया प्रजापतिं यजेत उपतिष्ठेत वा ॥ अन्वद्य नोनुमतिः" इति षडूचेन अभिलषितफलकाम: अनुमतिं यजेत उपतिष्ठेत वा । सूत्रितं हि । धाता दधातु [७.१०] प्रजाप- तिर्जनयतुं [७.२०] अन्वद्य नोनुमति : ” [७.२१] इति [कौ०७.१०] ॥ पूर्णमासयागे अनुमतिदेवताम् “अन्वद्य नः" इति षडूचेन परिगृह्णी- यात् । उक्तं वैताने । 'देवताः परिगृह्णाति" इति प्रक्रम्य "अन्वद्य न इति पौर्णमास्याम्” इति [ वै० १.१] ॥ पितृमेधकर्मणि इष्टकाभिश्चितं श्मशानं त्यनया सर्वे बान्धवाः परिषिञ्चेयुः ॥ 'अयं सहस्रम्” इति द्वाभ्यां पृश्निसवे हविर्मर्शनसंपातप्रदानादीनि कर्माणि कुर्यात् । सूचितं हि । “आयं गौः पृश्नि: [ ६.३१] अयं स हस्रम् [७, २३] इति पृश्नि गाम्" इति [ कौ॰ ४.७] ॥ ८८ तत्र प्रथमा ॥ 66 समेत विश्वे” [७.२२ ] इ- प्र न॑भस्व पृथिवि भन्दं दि॒व्यं नम॑ः । उ॒द्गो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ हरि॑म् ॥ १॥ प्र । नभस्व । पृथिवि । भि॒िन्द्धि | इ॒दम | दि॒व्यम् । नर्भः । उ॒गः । दि॒व्यस्य॑ । नः । धा॒तः । ईशा॑नः । वि | स्य॒ । हति॑म् ॥ १ ॥ १ K has no kamt, rrading भिधीदं दि०. DR too lhave no kanna and read f- धा॒ीद॑ दि॒॰. K V १ for ३. We with BBC २ADKKRŚVC5Cr उनो. B उम्नो. B उत्वो. We with Siyana 3 PPJCr उन्नः 1S' ददातु 2 So S