पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४६ अथर्वसंहिताभाष्ये 66 भन् । अनुकरणशब्दोयम् । घर्म इत्यर्थः । “यंद् प्रन्नित्यपतत् तद् धर्मस्य घर्मलम्” इति तैत्तिरीयश्रुतेः [तै आ° ५, १.५] । अनेन घ- र्मशब्दवाच्यः कालो लक्ष्यते । स धर्म: ग्रीष्मो न तताप । न्तर्भावितण्यर्थः 66 न तापयति संतापेन न बाधते । हिमः हेम- न्तर्तुः न जघान । अतिशैत्येन गात्रसंकोचनरूपबाधां न करोतीत्यर्थः । पृथिवी च जीरदानुः जीवनप्रदा | जीवे रदानुप्रत्ययः । य- द्वा। रकि ज्य: प्रसारणे जीर इति भवति । 'दाभाभ्यां नुः " [उ०३.३२] इति नुप्रत्यये दानुरिति । अस्यां व्युत्पती अवग्रहो युज्य- जीरदानु: प्रवृद्धदाना सती प्र नभताम् । उक्तो नभतिश- व्दार्थ: । वर्षेण आप्यायिता भवत्वित्यर्थः । किं च अस्मै यजमानाय आपश्चित आपोप घृतम् इत् घृतमेव सत्यः क्षरन्ति घृतवत् प्रीतिकारि- ण्यो भवन्ति । आपो भद्रा घृतमिद् आप आसु : " इति [ तै० सं० ५. ६.१.३] श्रुत्यन्तरात् । यडा आप: घृतमेव क्षरन्ति कुर्वन्ति । वृष्ट्या गोसमृद्धौ घृतवृद्धिर्भवतीति यावत् । घर्महेमन्तजनित संता पशैत्यवाधाभावः पृथिव्याप्यायनं घृतक्षरणं च केन हेतुना भवतीति तद् आह । यत्र य- स्मिन् देशे सोम: एतन्नामा देव: । इज्यत इति शेषः । तत्र तस्मिन् देशे सदम् इत् सर्वदैव भद्रम् कल्याणं भवति । सौम्ययागेन अनिष्ट- निवृत्तिः इष्टप्राप्तिश्चं भवतीत्यर्थः 66 तृतीया || प्र॒जाप॑तिर्जनयति प्र॒जा इ॒मा धाता द॑धातु सुमन॒स्यमा॑नः । संज्ञाना॒ानाः स॑म॑नसः॑ स॒नयो मयि॑ पुष्टं पु॑ष्ट॒पतिर्दधातु ॥ १ ॥ प्र॒जाऽप॑तिः । ज॒नय॑ति॒ । प्र॒जाः । इ॒माः । धाता | धातु॒ । सु॒ऽम॒न॒स्यमा॑नः । सम्ऽजानानाः । सम्ऽम॑नसः । सयौनयः । मयि॑ । पुष्टम् । पुष्टऽपति॑ः । धातु ॥ १ प्रजापतिः प्रजानां स्रष्टा पालयिता स देव: इमा: प्रजाः पुत्रादिका 1 S' तद् [ur यद्. S' omits च.