पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० २. सू० २१.]३३६ सप्तमं काण्डम् | ३४७ जनयतुं उत्पादयतु । धाता पोषको देवः सुमनम्यमानः सुमना इवा- ८८ चरन् । येन न प्रवर्तते । X " कर्तु: क्यङ् सलोपञ्च” इति क्यङ् । सलोपो व्यय- सौमनस्यं प्राप्तो दधातु पोषयतु । प्रजा इत्य- नुषङ्गः । किं च ता: प्रजा: संजानाना: समानज्ञानाः । कार्यविषये परस्परम् ऐकमत्यं प्राप्ता इत्यर्थः । “संप्रतिभ्याम् अनाध्याने " इति जानातेरकर्त्रभिप्रायेपि आत्मनेपदम् संमनसः संगतमन- । स्का: । अन्योन्याविसंवादिकार्यचिन्तापरा इत्यर्थः । सयोनयः समानका- रणाः । यथा प्रजा उक्तविशेषणविशिष्टा भवन्ति तथा पुष्टपति: पोषस्य पति: एतन्नामा देवो मयि पुष्टम् पोषं प्रजाविषयं दधातु विदधातु || चतुर्थी | अन्व॒द्य नोनु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ ह॒व्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मम॑ ॥ १ ॥ अनु॑ । अ॒द्य । नः॒ः । अनु॑ऽमतिः । य॒ज्ञम् । दे॒वेषु॑ । म॒न्यताम् । अ॒ग्निः । च॒ । ह॒व्य॒ऽवाह॑नः । भव॑ताम् । दा॒शुषे॑ । मम॑ ॥ १ ॥ अनुमतिः अनुमन्त्री सर्वकर्मसु अनुज्ञात्री पौर्णमासाभिमानिनी देवता । कलाहीने सानुमतिः पूर्णे राका निशाकरे । इति हि तडिदः । अद्य इदानीं नः अस्माकं यज्ञं देवेषु यष्टव्येषु अ- नु मन्यताम् अनुजानातु । ज्ञापयत्वित्यर्थ: । अनिश्च अभिरपि दाशु- विभक्तिव्यत्ययः । हविर्दत्तवतो मम हव्यवाहनः हव्यं मापयिता यष्टव्यान् देवान् भवताम् भवतात् । व्यत्ययेनात्मनेप- षे । दम् । हव्यवाहन इति । " हव्येनन्त:पादम्" इति ज्यु ॥ पञ्चमी ॥ अन्विद॑नुमते॒ त्वं म॑स॑से॒ शं च॑ न॒स्कृधि । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां देवि ररास्व नः ॥ २ ॥ अनु॑ । इत् । अ॒नु॒ऽमते॒ । त्वम् । म॑स॑से । शम् । यः॑ । नः । कृधि । जुषस्त्रं । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒व । ररास्त्र | नः ॥ २ ॥