पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४७ अथर्वसंहिताभाष्ये हे अनुमते एतन्नामिके देवते लम् अनु मंसिषे अनुमन्येथाः । अवधारणे । मन्यतेः पञ्चमलकारे रूपम् । इत् किं च नः अस्माकं शम् सुखं कृधि कुरु । आहुतम् आभिमुख्येन अग्नौ प्रक्षिप्तं हव्यम ह वि: जुषस्व सेवस्व । हे देवि द्योतमाने अनुमते नः अस्मभ्यं प्रजाम् पुत्रादिलक्षणां ररास्व प्रयच्छ । राते: “बहुलं छन्दसि " इति शप: : । व्यत्ययेन आत्मनेपदम् ॥ Lüt " षष्ठी ॥ अनु॑ मन्यतामनुमन्य॑मानः प्र॒जाव॑न्तं र॒यिमयमाणम् । तस्य॑ व॒यं हेड॑सि॒ मापि॑ भूम सु॒मृीके अ॑स्य सुम॒तौ स्या॑म ॥ ३ ॥ अनु॑ । म॒न्यताम् । अ॒नु॒ऽमन्य॑मानः । प्र॒जाऽव॑न्तम् । र॒यिम् । अक्षय- माणम् । तस्य॑ । व॒यम् । हेड॑सि । मा । अपि॑ । भूम॒ । सु॒ऽमृडीके । अ॒स्य॒ । सु॒ऽ- मतौ । स्याम् ॥ ३ ॥ " इति अनुमन्यमानः अनुमन्ता पुंदेव: । यद्वा लिङ्गव्यत्ययः । अत एव शा- खान्तरे स्त्रीलिङ्गत्वेन पठ्यते । “अनु मन्यताम् अनुमन्यमाना 'तस्यै वयं हेडसि” इति च [ तै० सं० ३.३.११.४] । अनुमन्त्री अ- 66 • । प्रजावन्तम् नुमतिर्देवता रयिम् अनु मन्यताम् अनुजानातु । कीदृश पुत्रादियुक्तम् अक्षीयमाणं च । किं च तस्य अनुमन्तुः अनुमतेर्वा हेडसि । पुंदेवस्य तस्या क्रोधनामैतत् । क्रोधेपि वयं मा भू- म । क्रोधविषया मा भूमेत्यर्थः । किं तु अस्य अनुमन्तुः अस्या अनु- मतेर्वा सुमृळी । मृळीकम् इति सुखनाम | शोभनसुखरूपे शोभनसु- खकारिण्यां वा सुमतौ अनुग्रहात्मिकायां शोभनायां बुद्धौ स्याम भवेम ॥ सप्तमी ॥ यत् ते॒ नाम॑ सु॒हवं॑ सुप्रणीतेनु॑मते॒ अनु॑मतं सु॒दानु॑ । तेना॑ नो य॒ज्ञं पि॑पृह विश्ववारे रयिं नो धेहि सुभगे सु॒वीर॑म् ॥ ४ ॥ 15' मंशिष. The test in S' reads मंसिषे (actually मंसिसं). See verse 6 below.