पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये नवमी ॥ अनु॑मति॒ सर्व॑मि॒दं ब॑भू॒व॒ यत् तिष्ठ॑ति॒ चर॑ति॒ यदु॑ च॒ विश्व॒मेज॑ति । तस्या॑स्ते देवि सुम॒तौ स्या॒ामानु॑मते॒ अनु॒ हि मंस॑से नः ॥ ६ ॥ अनु॑ऽमतिः । सर्व॑म् । इ॒दम् । ब॒भूव । यत् । तिष्ठ॑ति । चर॑ति । यत् ऊं इति॑ । च । विश्व॑म् । एज॑ति । ३५० तस्या॑ः । ते॒ । दे॒वः॒ । सु॒ऽम॒तौ । स्या॒म॒ । अनु॑ऽमते । अनु॑ । हि । म॑स॑से । नः ॥ ६ ॥ अनुमतिर्देवी इदं परिदृश्यमानं सर्व जगद् बभूव | सर्वशब्दार्थ वि शिनष्टि । यत् जगत् तिष्ठति स्थावरवृक्षगुल्मादिरूपेण वर्तते । चरति यत् जगत् अबुद्धिपूर्व चेष्टते । यदु च यदपि च विश्वम् सर्वं जगद् एजति बुद्धिपूर्वकं चेष्टते । X एज़ कम्पने । स्थावरजङ्गमात्मकं सर्वे ज रुप गद् अनुमतिर्बभूव । हे देवि अनुमते तस्यास्तादृश्यास्ते तव सुमतौ शो- भनायाम् अनुग्रहबुद्धौ स्याम भवेम । हे अनुमते हि यस्मात् नः अ- स्मान् अनु मंसिषे अनुमन्यसे । ॐ मन्यतेः पञ्चमलकारे “सिप् ब- हुलं लेटि” इति सिप् ॥ दशमी ॥ समेत॒ विश्वे॒ वच॑सा॒ पति॑ दि॒व एक वि॒भूरति॑िथि॒र्जना॑नाम् । स पूव्य नूत॑नमा॒विवा॑स॒त् तं व॑ती॒निरनु॑ वावृत॒ एक॒मित् पुरु ॥ १ ॥ स॒मा॒ऽएत॑ । विश्वे॑ । वच॑सा । पति॑म् । दि॒वः । एक॑ः । वि॒ऽभूः । अति॑िथिः । जना॑नाम् । सः । पू॒र्व्यः । नूत॑नम् । आ॒ऽविवा॑सत् । तम् । वर्तनिः । अनु॑ । व॒वृ॑ते॒ । एक॑म् । इत् । पुरु ॥ १ ॥ पैतृमेधिककर्मणा संस्कृतस्य पुरुषस्य सूर्यप्रशंसापूर्वकं तदनुग्रहं प्रार्थय- १ B वर्तनि S वर्तनी° We with ABDKKRVCS. 1S' मंशिपे.