पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ अथर्वसंहिताभाष्ये ध्याहारः । [ आ भवतु] अनेककालपर्यन्तं सूर्यः अस्मञ्चक्षुर्गोचरो भवत्वित्यर्थः । तं विशिनष्टि | कवीनाम क्रान्तदर्शिनां पुंसां मतिः म ननीयः । *कर्मणि तिन् । ज्योतिः प्रकाशरूपः । किं च निमित्तसप्तमी । विधर्मणि विविधे धर्मसाधने कर्मणि । भः सर्वेषां स्वस्वकर्मसु तत्फलेषु च बन्धकः संयोजकः सूर्यः । न्धेर्ब्रधिबुधी च [उ०३. ५ ] इति नक् प्रत्ययः । उषसः उष:- कालोपलक्षितानि अहानि समीची: संगतानि अनुक्रमेण प्राप्तानि स- भैरयन् । सम्यक् प्रेरयतु । सत्कर्मकरणाय वचनव्यत्ययः । पुनःपुनरहानि प्रेरयत्वित्यर्थः ॥ द्वादशी || उषसो विशेष्यन्ते । अरेपस: अपापा: पापहारिण्यः सचेतसः समानज्ञानाः स्वसरे । अहर्नामैतत् अह्नि विषये मन्युमत्तमाः । न्यतिर्दीप्तिकर्मा: । अतिशयेन दीप्तिमत्यः प्रकाशयुक्ताः गोः पृश्नि- रूपाया: चिते । चायतेश्चितशब्दो निपातितः । पूजादाना- दिकर्मणि निमित्ते ब्रभः प्रेरयत्विति पूर्वेण संवन्धः । यद्वा । नोते: संपदादिलक्षणो भावे किप् ॥ । गोशब्देन आदित्य उच्य ते । गौः विष्टप् नभ इति षट् पदानि दिवश्चादित्यस्य च सा- धारणानीति हि यास्क: [निघ°१.४] । तस्य आदित्यस्य चिते. चयनाय ज्ञापनाय । भवन्तु इति शेषः । अथ वा स्वसरे गोश्चित इ- ति सामानाधिकरण्येन संबन्धः । चायतेर्निशामनार्थादेव चितश- गो: आदित्यस्य चिते दर्शनयोग्ये स्वसरे अह्नि विषये उ- घसो भवन्तु इति ॥ त्रयोदशी ॥ दौष्व॑भ्यं दौर्जीवित्यं रक्षो अभ्व मरायः । दुर्णाम्नि॒ सर्वा॑ दुर्वाच॒स्ता अ॒स्म॑न्ना॑शयामसि ॥ १ ॥ दौःऽस्व॑भ्यम् । दौःऽजीवियम् । र । अ॒भ्वम् । अरायः । दुःऽनाम्नः । सर्वाः । दुःऽवाच॑ः । ताः । अस्मत् । नाशयामसि ॥ १ ॥ See IV. 17. 3.