पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ३. सू°२५.]३४० सप्तमं काण्डम् | व्याख्याता । [४.१७.५] ॥ ३५३ द्वितीयं सूक्तम् । [ इति ] सप्तमे काण्डे द्वितीयोनुवाकः ॥ तृतीयेनुवाके त्रीणि सूक्तानि । तत्र “यन्त्र इन्द्रः । 'यन्त्र इन्द्रः ” इति प्रथमं सू- कम् । तत्र आद्ययर्चा मन्त्रोक्ता इन्द्राद्या नव देवताः सर्वफलकामो यजेत उपतिष्ठेत वा ॥ तत्रैव कर्मणि “ययोरोजसा" इति द्वाभ्यां विष्णुवरुणौ यजेत उपति- ष्ठेत वा ॥ सर्वसंपत्कामो “ विष्णोर्नु कम्" इत्यष्टर्चेन विष्णुं यजेत उपतिष्ठेत वा ॥ तद् उक्तं कौशिकेन । “ यन्त्र इन्द्रः [७.२५] ययोरोजसा[७. [२६] विष्णोर्नु कम्” [७.२७] इति [कौ० ७.१७] ॥ 29 66 तथा "वैष्णवीम् अन्नकामस्यान्नक्षये च” इति [ न०क० १७ ] विहि- तायां वैष्णव्याख्यायां महाशान्तौ 'विष्णोर्नु कम्' इति आवपेत् । तद् उक्तं नक्षत्रकल्पे । “विष्णोर्नु कम् इति वैष्णव्याम्” इति [न०क° १७] ॥ आतिथ्येष्टौ "विष्णोर्नु कम्” इति वैष्णवं हविरभिमृशेत् । तद् उ- क्तं वैताने । “आतिथ्यायां हविरभिमृशति यज्ञेन यज्ञम [ ७.५] इति वैष्णवं विष्णोर्नु कम्” [७.२७ ] इति [वै॰३.३] ॥ 66 तथा सोमयागे औपवस्थ्याहनि हविर्धानयोः उपस्तभ्यमानम् उपस्त- म्भनकाष्ठम् अनया अनुमन्त्रयेत । 'विष्णोर्नु कम इत्युपस्तम्भनम् उप- स्तभ्यमानम्” इति वैतानसूत्रात् [वै०३. ५ ] ॥ 66 सोमयागे “ 'यस्योरुषु ” इति. सोमक्रयणार्थं निक्रामेत् । 'यस्योरुवि- ति निक्रम्य ” इति [ वै० ३.३] वैतानसूत्रात् ॥ पशुयागात् प्राक् क्रियमाणायाम इष्टौ “उरु विष्णो" इत्यनया वै- ष्णवं पूर्णहोमं ब्रह्मा अनुसन्त्रयेत । “अथ पशु: । वैष्णवं पूर्णहोमम् उरु विष्णो” [वै०२. ६] इति हि वैतानम् ॥ 66 " तथा अद्भुतशान्तौ 'उरु विष्णो ” इत्यनया विष्णुं यजेत । उक्तं न- 19' 'जये for 'क्षये. 2 SoS. ४५