पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ अथर्वसंहिताभाष्ये क्षत्रकल्पे । उरु विष्णो विक्रमस्वेति विष्णोः” इति [ न०क०१४] ॥ दर्शपूर्णमासयोः प्रणीताप्रणयनप्रभृति हविष्कृदुद्वादनाद् अर्वाक् अभि वदनप्रायश्चित्तार्थम् “इदं विष्णु: ” इति जपेत् । “प्रणीतासु प्रणीयमा नासु वाचं यच्छत्या हविष्कृत उडादनाद् । यदि वदेद् वैष्णवीं जपेत् " इति हि वैतानं सूत्रम् [वै॰१.२] ॥ 66 सोमयागे उत्तरवेद्यग्निप्रणयनानन्तरं दक्षिणहविर्धानस्य वर्त्महोमम् “इ- दं विष्णु: ” इति ब्रह्मा अनुमन्त्रयेत ॥ तम्मिन्नेव कर्मणि उत्तरहविर्धानस्य वर्त्महोमं “त्रीणि पदा” इति अ- नुमन्त्रयेत ॥ तद् उक्तं वैताने । “दक्षिणहविर्धानस्य वर्त्माभिहोमम् इदं || विष्णुः [७.२७.४] इत्युत्तरस्य त्रीणि पदा[७.२७.५ ]" इति [वै०३.५] ॥ तृतीयसवने सोमयागानन्तरम् “ इदं विष्णुः इति चमसान् अप्सु · प्रक्षिपेत् । “अप्सु[सोम] चमसान् वैष्णव्यर्चा निनयति" [वै० ३.१३] इति वैताने सूत्रितम् || 66 "" तथा “त्वाष्ट्रीं वस्त्राये” इति [ न० क० १७ ] विहितायां वाष्ट्र्याख्याया महाशान्तौ " इदं विष्णु: " इत्यनया त्रिवृन्मणिबन्धनं कुर्यात् । तद् उ- तं नक्षत्रकल्पे । “अग्नि: सूर्य: [५.२.२] इदं विष्णुः [७.२७.४] इति क्तं त्रिवृतं त्वाट्याम्” इति [ न० क° १९ ] ॥ ८८ 66 पशुतन्त्रे अवटे स्थापितं यूपं " विष्णो: कर्माणि ” इति डाभ्याम् ऋ- ग्भ्यां ब्रह्मा अनुमन्त्रयेत । धर्ता धिंयस्व [१२.३.३५] इति पादेनावटे निधीयमानं विष्णोः कर्माणि [७.२७.६] इति द्वाभ्याम उच्छ्रितम्” इ- ति [वै०२. ६] वैतानं सूत्रम् ॥ 66 विष्णो: क- तथा अग्निचयने कूर्माभ्यञ्जनानन्तरम् उलूखलमुसलं च र्माणि" इति ब्रह्मा अनुमन्त्रयेत । " विष्णोः कर्माणीत्युलूखलमुसलं नि- धीयमानम्” इति [ वै० ५.२ ] वैताने सूत्रितत्वात् " तत्र प्रथमा ॥ यन्न॒ इन्द्र॒ो अव॑न॒द् यद॒ग्निर्विश्वे॑ दे॒वा मरुतो यत् स्वर्काः । 150S 2' sश्यति पद fafa. We with the lana. प्रियम्वति पाद BS' कर्माभ्यांजना: 15' निधन-