पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमं काण्डम् । तद॒स्मभ्यं॑ सवि॒ता सत्यधर्मा प्र॒जाप॑तिरनु॑मति॒र्न य॑छात् ॥ १ ॥ यत् । नः॒ । इन्द्र॑ । अव॑नत् । यत् । अ॒ग्निः । विश्वे॑ । दे॒वाः । स॒रुत॑ः । यत् । सुऽअर्काः । [अ० ३. सू° २६.]३४१ ३५५ । तत् । अ॒स्मभ्य॑म् । स॒वि॒ता । स॒त्यऽध॑र्मा | प्र॒जाऽप॑तिः । अनु॑ऽमतिः । नि । यच्छ्रात् ॥ १ ॥ इन्द्रः । *इदि परमैश्वर्ये । 'ऋाजेन्द्राग्र० " इत्यादिना [ ३०२, २४] रक्प्रत्ययान्तो निपातितः । यास्कस्तु इन्द्र इरां हणाति [ नि० १०. 6 ] इत्यादिना इन्द्रशव्दं बहुधा निरुवाच । परमैश्वर्यादिगुणवि- शिष्टो देवः नः अस्मभ्यं यत् फलम् असनत् अददात् । षणु दा- ने । व्यत्ययेन शप् । संभजनार्थस्य भौवादिकस्य वा रूपम् । यत् फलं समभजत् । अग्निः अङ्गनादिगुणविशिष्टो देवो यत् । असनद् इति, सर्वत्र क्रियानुषङ्गः । विश्वे देवाः एतन्नामका गणदेवाः | मरुतः एको- नपञ्चाशत्संख्याका मरुद्गणाः । स्वर्का: । अर्को मन्त्रो भवति यद् ० अनेनार्चन्ति । अर्को देवो भवति यद् एनम् अर्चन्तीति यास्कः [ नि० ५.४] । सुमन्त्रा: सुदेवा वा एतन्नामानो देवाश्च । यद् असनन् इति क्रियापदस्य बहुवचनान्तत्वेन विपरिणाम: । तत् फलम् अस्मभ्यं स- विता सर्वस्य प्रेरक सत्यधर्मा यथार्थकर्मा एतन्नामा देवः प्रजापतिः अ नुमतिश्च नि यच्छात् निगच्छतु स्थापयतु । प्रत्येक विवक्षया एक- वचनम् | यम उपरमे । अस्मात् पञ्चमलकारे 'इषुगमियमां छ: " । आडागमः ॥ 66 ● द्वितीया ॥ ययो॒ोरोज॑सा स्कभि॒ता रजा॑सि॒ यौ वी॒र्यैवी॑रत॑मा॒ा शवि॑ष्ठा । यौ पत्ये॑ते॒ अम॑तीौ सहो॑भि॒र्विष्णु॑मन् वरु॑णं पूर्वहू॑तिः ॥ १ ॥ ययो॑ः । ओज॑सा । स्कभिता । रजा॑सि । यौ । वी॒र्यैः । वी॒रऽत॑मा । शवि॑ष्ठा । यौ । पत्ये॑ते॒ इति॑ । अम॑तिऽइतौ । सह॑ ऽभि । विष्णु॑म् । अ॒ग॒न् । वरु॑णम् । पूर्वऽहु॑तिः ॥ १ ॥