पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू० २७.] ३४२ सप्तमं काण्डम् । ३५७ स्य द्योतमानस्य विष्णोर्वरुणस्य च धर्मणा धारकेण कर्मणा सहोभिः ब- लैश्च पुरा पूर्व जगद् व्यरोचिष्ट प्रानीत् व्यचष्टेति कालविपरिणामेन यो- ज्यम् । X पुराशब्दस्य निपातस्य रोचते इत्यादिधातुयोगे “यावत्पु- रानिपातयोर्लट्” इति भविष्यदर्थे लट् । देवस्य धारकेण कर्मणा बलैश्च यद् इदं विश्वं विरोचिप्यते प्राणिष्यति विख्यास्यति विशेषेण द्र- क्ष्यति । एवं विष्णुवरुणयोराज्ञायां विश्वं जगद् भूतभविष्यवर्तमानकालेषु रोचनादिव्यापारास्पदं भवति । तादृशं विष्णुं वरुणं च पूर्वहूतिः इत- रेभ्य: प्रथमाह्वानोयं फलार्थी जनः अगन् गच्छतु । हविषा संयोजयतु इत्यर्थः ॥ चतुर्थी ॥ विष्णोर्नु कं प्र वो॑च॑ वी॒र्याणि यः पार्थिवानि विम॒मे रजो॑सि । यो अस्क॑भाय॒दुत्त॑रं स॒धस्यै विचक्रमा॒णस्ने॒धोरु॑गा॒यः ॥ १ ॥ विष्णो॑ । नु॒ । क॒म् । प्र । वी॒ोचम् | वीर्याणि । यः । पार्थि॑वानि। विऽम॒मे । रजांसि । यः । अस्क॑भायत् । उत्ऽत॑रम् । स॒धऽस्य॑म् । वि॒ऽच॒क्रमा॒णः । त्रेधा । उ॒- रुऽगायः ॥ १ ॥ 66 विष्णो: व्यापनशीलस्य देवस्य वीर्याणि वीरकर्माणि नु क्षिप्रं प्रा वो- चम् प्रकर्षेण ब्रवीमि । X छान्दसो लुङ् । कम् इति पूरणः । विष्णुर्विशेष्यते । यो देव: पार्थिवानि पृथिवीमयानि रजांसि लोकान् वि- ममे निर्ममे । “तिस्रो भूमीर्धारयन्त्रीरुँत द्यून्" इति [ऋ० २.२७.] मन्त्रवर्णे एकैकस्य लोकस्य त्रित्वसंख्या श्रूयते । यहा त्रयो वा इमे त्रिवृतो लोका: ” इति [ ऐ॰ब्रा० २.१७] एकैकस्य त्रिवृत्करणश्रवणात् पार्थिवानीत्यत्र पृथिवीशब्देन पृथिव्यन्तरिक्षद्युलोका उच्यन्ते । “द्वितीय- स्यां पृथिव्यां तृतीयस्यां पृथिव्याम्” इति हि तैत्तिरीयश्रुतिः [तै० सं० १.२,१२,१] । पृथिवीषु भवानि । ॐ पृथिवीशब्दाद् भवार्थे अञ् १KKV प्र. "