पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये ३५६ 66 " प्रत्ययः । रजांसि ज्योतींषि अग्निविद्युत्सूर्यात्मकानि विममे निर्मित वान् । किं च यो विष्णुः उत्तरम् उद्गततरं सधस्थं स्थानम् । सह ति- छन्त्यस्मिन् देवा इति सधस्थम् स्वर्गम् । * “सध मादस्ययोश्छ- न्दसि ” इति सहस्य सधादेश: X । अस्कभायत अस्तम्नात् अधार- यत् । हु“स्तन्भुस्तुन्भु" इत्यादिना स्क: नामत्यये "शायच् छ- न्दसि सर्वत्र इति शायजादेशः । किं कुर्वन् । त्रेधा त्रिधा पु- थिव्याम् अन्तरिक्षे दिवि च विचक्रमाण: पादप्रक्षेपं कुर्वन् उरुगाय: उ- रुभिर्महात्मभिर्गीयमानः स्तूयमानः उरुगमनो वा । तस्य विष्णोर्वीर्याणि प्रब्रवीमीति संवन्धः ॥ >> म तद् विष्णुं स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः । परावत आ जंगम्यात् पर॑स्याः ॥ २ ॥ प्र । तत् । विष्णु॑ । स्त॒वते॒ । वी॒र्या॑णि । मृ॒गः । न । भीमः । कुच॒रः । 1 गिरिऽस्थाः । प॒रा॒ऽवत॑ः । आ । ज॒ग॒म्या॒ात् । पर॑स्याः ॥ २ ॥ यस्यो॒ोरुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ । उ॒रु वि॑ष्णो॒ वि क्र॑मस्वोरु या॑य नस्कृधि । घृतं घृ॒तयोने पिव॒ प्रम॑ य॒ज्ञप॑ति॑ तिर ॥ ३ ॥ यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्त । भुव॑नानि । विश्वा॑ । उ॒रु । वि॒ष्णो॒ इति॑ । वि । अ॒म॒स्व॒ । उ॒रु । क्षया॑य । नः॒ । कृ॒धि॒ि । घृ॒तम् । घृत॒ऽयो । पव॒ । प्रऽम॑ । य॒ज्ञऽप॑तिम् । तिर् ॥ ३ ॥ पञ्चमी ॥ तत् । ४. लिङ्गव्यत्ययः ४ । स महानुभावो वि ष्णुः वीर्याणि वीरकर्माणि । उद्दिश्येति क्रियाध्याहारः । म स्तवते प्र- । कण स्तूयते । अस्तौतेः कर्मणि व्यत्ययेन शप्हु । मृगो न मृग इव सिंह इवं भीमः भयानक कुचर: कुत्सितं चरन को भूम्या १R तद्विष्णु: २Pomits the visarga.