पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू०२७.]३४२ सप्तमं काण्डम् | ३५९ वा चरन् गिरिष्ठाः पर्वते तिष्ठन् भूमौ संचरन्नपि सिंह: उत्पवनेन प- वेतस्थितो भवति । एवं स विष्णुः परस्याः परावत: अतिदूराद् देशाद- पि आ जगम्यात् स्तुतिकर्मत्वेन आगच्छतु । गमेश्छान्दसः शप: लुः । यस्य विष्णो: उरुषु विस्तीर्णेषु त्रिषु विक्रमणेषु पादनि- धनस्थानेषु विश्वा विश्वानि भुवनानि भूतानि अधिक्षियन्ति अधिवस- न्ति । क्षि निवासगत्योः । प्रथमे विक्रमे भौमानि द्वितीये अन्तरिक्ष्याणि तृतीये दिव्यानि भूतानि वसन्तीत्यर्थः ॥ षष्ठी | हे विष्णो व्यापक उरु प्रभूतं विक्रमस्व लोकत्रये पादत्रयं कुरु । किं च नः अस्माकं क्षयाय निवासाय । 3 षष्ठ्यर्थे चतु- र्थी । निवासस्य उरु प्रभूतं धनादिकं कृधि कुरु | अस्माकं नि- वासं बहुधनादियुक्त कुर्वित्यर्थ: । हे घृतयोने घृतस्य योने कारणभूत घृ- तं योनिर्यस्येति वा घृतयोनिः । अत्र अस्थात्मना विष्णुः स्तूयते | हे विष्णो इदं हूयमानं घृतम् आज्यं पिब । अपि च यज्ञपतिम् यजमानं प्रम तिर प्रवर्धय । पूर्वस्तिरतिर्वर्धनार्थः । “प्रसमुपोदः पादपू- रणे" इति प्रशब्दस्य द्विवचनम् ॥ सप्तमी ॥ इ॒दं विष्णुर्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दा । समू॑ढमस्य पांसुरे ॥ ४ ॥ } । । इ॒दम् । विष्णु॑ः । वि च॒क्रमे । त्रेधा | नि । धे॒ । प॒दा ॥ समऽज॑म् । अ॒स्य॒ । पा॑सु॒रे ॥ ४ ॥ विष्णु: व्यापी भगवान् इदं विश्वं वि चक्रमे विक्रान्तवान् । कतिधा विचक्रमे इति तद् आह । धा त्रिधा पदा पदानि नि दधे स्थाप- यामास । “पृथिव्याम् अन्त र दिवि च विष्णुर्वामनो भूत्वेमालोकां- स्त्रिभिः क्रमैरभ्यजयत्" इति श्रुतेः । अस्य विक्रममाणस्य विष्णोः पां- सुरे पांसुमति । रो मत्वर्थीयः । पादे लोकत्रयं समूढम 8. अत्र “विष्णुविं- सम्यग् ऊदं समवस्थापितं समाकृष्टं वा अभवत् । 1 S' 'दा॰ for °धा,