पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० अथर्वसंहिताभाष्ये शतेर्वा व्यश्नोतेर्वा । यद् इदं किं च तद् वि चक्रमे त्रेधा निधे प " दम् । पृथिव्याम अन्तरिक्षे दिवीति शाकपूणि: ” [नि०१२.१४] इ- त्यादि निरुक्तम् अनुसंधेयम् ॥ अष्टमी ॥ त्रीणि पदा वि च॑क्रमे विष्णुंगपा अदा॑भ्यः | इ॒तो धर्मोणि धा॒रय॑न् ॥ ५ ॥ त्रीणि॑ । प॒दा । वि । च॒क्रमे । विष्णुं । गा॒गो॒पाः । अदा॑भ्यः । इ॒तः । धर्मा॑णि । धा॒रय॑न् ॥ ५ ॥ त्रीणि पदा पदानि वि चक्रमे विक्रान्तवान् । गोपाः गोपायिता अ दाभ्यः अहिंस्यः परैरनभिभाव्यो विष्णुः । अतः अस्मात् लोकात् पृथि- 'व्या आरभ्य धर्माणि कर्माणि अग्निहोत्रादीनि धारयन् । अपि वा । अतः एभ्यस्त्रिभ्यः पदेभ्यो धर्माणि भूतधारकाणि रजांसि पृथिव्यन्तरिक्ष- धुलोकरूपाणि धारयन् । विचक्रमे इति संबन्धः ॥ नवमी ॥ विष्णोः कर्माणि पश्यत॒ यतो॑ व्र॒तानि॑ पस्स॒शे । इन्द्र॑स्य॒ यु॒ज्यः॒ सखा॑ ॥ ६ ॥ । विष्णो॑ः । कर्माणि । पश्यत । यत॑ः । व्र॒तानि॑ । प॒स्प॒शे । इन्द्र॑स्य॒ | यु॒ज्य॑ | सखा॑ ॥ ६ ॥ यतः । यः । विष्णो: व्यापकस्य देवस्य कर्माणि पश्यत । हे स्तोतार इति शेषः । "इतराभ्योपि दृश्यन्ते” इति तृतीयार्थे तसिल प्रत्य- यैः कर्मभिः व्रतानि नानाविधानि युष्मदीयानि कर्माणि पस्पशे स्पृशति बभ्राति वा । स्पश बन्धंनस्पर्शनयोः । स्वरितेत् । छान्दसो लिट् । शर्पूर्वस्य स्खयः शेष: हु । पुनः कीदृशो विष्णुः । इन्द्रस्य देवस्य युज्य: योग्य: अनुगुणः सखा समानख्यानो मित्रभू- 1 So S'.