पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू०२४.]३४३ सप्तमं काण्डम् । ३६३ हस्तो॑ । पृ॒ण॒स्व॒ । ब॒हुऽभिः॑ः । व॒सव्यैः । आ॒ऽप्रय॑च्छ । दक्षिणात् । आ । उत । सव्यात् ॥ ॥ हे विष्णो देव दिवः धुलोकात् उत वा अपि वा पृथिव्याः महः म- हतः दिवः पृथिव्याश्च महतोन्यस्मात् महर्लोकादेः । महच्छव्दात् पञ्चम्येकवचने टिलोपश्छान्दसः । महतेर्वा पूजार्थात् किबन्तात् पञ्चम्ये- कवचनम् । यहा मह इति पदम् अन्तरिक्षस्य विशेषणम् । हे विष्णो । पुनरामन्त्रणम् आदरार्थम् । उरोः विस्तीर्णात् । भा- षितपुंस्कत्वेन नुमभावः । अन्तरिक्षात् लोकात् । आनीतैरिति शे- षः । बहुभिः अधिकैः वसव्यैः वसूनां समूहैः । हु“वसो: समूहे च" इति यत् प्रत्ययः । हस्तौ त्वदीयौ पृणस्व पूरय । धुलोका- दिभ्य आनीतैर्बहुभिर्धनैस्त्वदीयौ हस्तौ पूरय | प्रभूतं धनराशि हस्ताभ्यां गृहाणेत्यर्थः । ततस्तं प्रभूतं धनराशिं दक्षिणात् हस्ताद् आप्रयच्छ आ- भिमुख्येन अस्मभ्यं देहि । उत अपि च सव्यात् वामहस्ताच्च आ । प्रय- च्छेत्यनुषङ्गः । दण दाने । पाम्रा० इत्यादिना यच्छादेशः ॐ ॥ तृतीया ॥ "" इ॒है॒वास्मा॒ अनु॑ वस्ता॑ व्र॒तेन॒ यस्मा॑ प॒दे पुनते॑ देव॒यन्त॑ः । घृ॒तप॑द॒ी शक्क॑री॒ सोम॑पृष्ठोप॑ य॒ज्ञम॑स्थित वैश्वदे॒वी ॥ १ ॥ इ॒ । ए॒व । अ॒स्मान्॑ । अनु॑ । व॒स्त॒म् । व्र॒तेन॑ । यस्या॑ । प॒दे । पु॒नते॑ । दे॒व॒ऽयन्त॑ । घृ॒तऽप॑दी । शर्करी । सोम॑ऽपृष्ठा । उप॑ य॒ज्ञम् । अ॒स्थित॒ । वै॒श्व॒ऽदे॒वी ॥ १ ॥ इडा धेनुरूपा । एवशब्दः अवधारणे । अस्मान् सत्कर्मकारिण: व्रते- न कर्मणा अनु वस्ताम् अनुक्रमेणाच्छादयतु । अस्माभिरनुष्ठीयमानं कर्म यथा फलप्रदं भवति तथा करोत्वित्यर्थः । Xवस आच्छादने । आ- दादिक: अनुदात्तेत् । यस्या इडाया: पदे पादे देवयन्तः देवका- मा यजमानाः पुनते स्वात्मानं पुनन्ति । ॐ देवशंब्दात् "सुप आ- 66 १ $ अस्मात्. े