पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ३. सू०३०.]३४५ सप्तमं काण्डम् | ३६५ कामास्ते प्रकृता: वेदद्रुघणादयो देवासः देवात्मका इमम् अस्मदीयं यज्ञं जुषन्ताम् सेवन्ताम् ॥ पञ्चमी ॥ अग्ना॑विष्णू महि॒ तद् वा॑ महि॒त्व॑ पा॒ाथो घृ॒तस्य॒ गुहा॑स्य॒ नाम॑ । दमे॑दमे स॒प्त रत्ना॒ दधा॑नौ॒ प्रति॑ वां जि॒ह्वा घृतमा च॑रण्यात् ॥ १ ॥ अग्ना॑विष्णो॒ इति॑ । महि॑ । तत् । वाम् | महि॒ऽत्वम् । पा॒थः । घृ॒तस्य॑ । गु- ह्य॑स्य । नाम॑ । दमे॑ऽदमे । स॒प्त । रत्ना॑ । दधा॑नौ । प्रति॑ । वा॒म् । जि॒ह्वा । घृ॒तम् । आ । चरण्यात् ॥ १ ॥ हे अविष्णू । े नङ्

  • “ देवताइन्द्वे च " इति पूर्वपदस्य आ-

। वाम युवयोस्तत् वक्ष्यमाणं प्रसिद्धं वा महित्वम् माहात्म्यं महि महत् महनीयं पूजनीयम् । इन् सर्वधातुभ्यः इति [उ०४. ११७] महेरिन् प्रत्ययः । यतः गुह्यस्य गोपनीयस्य गुहारूपजु- हूंगतस्य वा नाम आज्यसांनादिनामवतों घृतस्य क्षरणशीलस्य वस्तु- नः पाथः पिबथः । छुपा पाने । शपो लुक् छान्दसः छ । की- दृशौ । दमेदमे गृहेगृहे सर्वेषु यज्वगृहेषु सप्त सप्तसंख्याकानि रत्ना र लानि रमणीयानि गवा श्वादिसप्तपशुरूपाणि रत्नानि दधानौ धारयन्तौ । किं च वाम युवयोः प्रति प्रत्येकं जिह्वा रसना घृतम् हूयमानम् आ- ज्यम् आ चरण्यात् आभिमुख्येन प्राप्नोतु । भक्षयत्वित्यर्थः । एतत् म- हित्वम् इति पूर्वेण संबन्ध: । हुचरण गतौ इति कण्ड्वादौ पठ्य- ते । तस्मात् लेटि आडागमः ॥ षष्ठी ॥ अग्ना॑विष्णू महि॒ धाम॑ प्रि॒यं वा॑ वी॒थो घृ॒तस्य॒ गुहा॑ जुषा॒णो । दमे॑दमे सुष्टुत्या वा॑वृधा॒नौ प्रति॑ वां जि॒ह्वा घृ॒तमुच्च॑र॒ण्यात् ॥ २ ॥ 1 S' ततः for यतः. 2S °सांनायादि०. :3 S' नामव for नबनतो, which is conjec. tural. 1S' गचाश्वादिरूपाणि for गवाश्वादि.