पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ अथर्वसंहिताभाष्ये अग्ना॑विष्णो॒ इति॑ । महि॑ । धाम॑ । प्रि॒यम् । वा॒मम् । वी॒थः । घृ॒तस्य॑ । गुहा॑ । जुषाणौ । । दमे॑ऽदमे । सु॒ऽस्तु॒त्या । व॒वृधा॒नौ । प्रति॑ वा॒म् । जि॒ह्वा । घृ॒तम् । उत् । चरण्यात् ॥ २ ॥ वी हे अनाविष्णू वाम युवयो: धाम स्थानं तेजो वा महि महत् महनीयं वा प्रियम् इष्टं सर्वेषां प्रीतिकारि वा भवति । किं च घृतस्य गुह्या गुह्यानि सांनाय्यचरुपुरोडाशादीनि स्वरूपाणि वीथः भक्षयथः । गतिप्रजनकान्त्यशनखादनेषु छु । जुषाणौ परस्परं मीयमाणी दमेदमे गृहेगृहे सर्वेषु यजमानगृहेषु सुष्टुत्या शोभनया गुणिनिष्ठगुणाभिधानरू- पया स्तुत्या वावृधानौ अत्यर्थं वर्धमानौ । यस्माद् एवं तस्माद् वाम् सुवयो: जिल्हा प्रति प्रत्येकं घृतम् उच्चरण्यात प्रामोतु भक्षयतु । रण्यते रूपसिद्धिरुक्ता ॥ सप्तमी ॥ स्वाक्तं मे द्यावा॑पृथिवी स्वाक्कै मित्रो अंकरयम् । स्वाक्तं मे ब्रह्म॑णस्पतिः स्वाक्तं सविता क॑रत् ॥ १ ॥ सु॒ऽआक्त॑म्। मे॒ । द्यावा॑पृथि॒वी इति॑ । सु॒ऽआक्त॑म् । मि॒ित्रः । अकः । अ॒यम् । सु॒ऽआत॑म् । मे॒ । ब्रह्म॑णः । पति॑ः । सु॒ऽआत॑म् । स॒वि॒ता । करत् ॥ १ ॥ द्यावापृथिवी द्यावापृथिव्यौ मे मदीयम् अक्षियुगं यूपं वा स्वाक्तम् अ- अनेन सुष्ठु आ सर्वतः अक्तम् रञ्जितं कुरुताम् । अयं परिदृश्यमानो मित्र: सूर्य: स्वाक्तम् अकः करोतु । सर्वत्र अक्षियुगं यूपो वा क- र्म । 99 099 । तथा ॐ अकः इति । करोतेश्छान्दसे, लुङि " मन्त्रे घस इति हेर्लुकि गुणे "हल्ड्या' इत्यादिना तिपो लोपे रूपम् ब्रह्मणः मन्त्रस्य पति: पालयिता देवः मे मदीयम अक्षि यूपं वा स्वाक्तं करोतु । सविता सर्वस्य प्रेरयिता देवोपि स्वाक्तं करत् करोतु । क- 660 ● अमाड्योगेपि ' रोतेर्लुङि “कृमृहरुद्रिभ्यश्छन्दसि” इति हे: अङ् । इति अडभावः । पञ्चमलकारे वा अडागमे रूपम् ४ ॥ ""