पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ अथर्वसंहिताभाष्ये >> स्कारम् हविर्लक्षणम् अन्नं वा बिभ्रतः धारयन्तो वयम उपागन्म उप- गच्छेम परिचरेम । X गमेश्छान्दसे लुङि “मन्त्रे घस इति हे- र्लुकि “मो नो धातो: " “म्वोश्च ” इति नकारे रूपम् ४ । तः मे मम मदीयस्य वा माणवकस्य दीर्घ शतसंवत्सरपरिमितम् आयुः कृणोतु करोतु ॥ -Le दशमी ॥ सं मा सिञ्चन्तु म॒रुतः सं पू॒षा सं बृह॒स्पति॑ः । सं मा॒यम॒ग्निः स॑ञ्चतु प्र॒जया॑ च॒ धने॑न च दीर्घमायु॑ः कृणोतु मे ॥ १ ॥ सम् । मा॒ । मि॒ञ्च॒न्तु॒ । म॒रुत॑ः । सम् । पू॒षा । सम् । बृह॒स्पति॑ः । सम् । मा॒ा । अ॒यम् । अ॒ग्निः । मि॒ञ्च॒तु । प्र॒ऽजया॑ । च॒ । धने॑न । च॒ । - र्घम् । आयु॑ः । कृ॒णे॒तु॒ । मे ॥ १॥ मरुदादयो देवताः मा मां फलार्थिनं यष्टारं प्रजया पुत्रादिरूपया धनेन च सं सिञ्चन्तु संयोजयन्तु अभिषिञ्चन्तु वा । * परस्परस- मुच्चयार्थी शब्दौ । प्रतिदेवतं क्रियानुषङ्गद्योतनार्थं सम् इति उपस- र्गः । किं च मे मम मदीयस्य माणवकस्य वा दीर्घम् आयु: कृणोतु । अग्नि: संनिहितत्वाद् आयुष्करणे संबध्यते । अपि वा मरु- दादयः । तदा कृणोत्विति प्रत्येकविवक्षया एकवचनम् ॥ [ इति ] तृतीयेनुवाके द्वितीयं सूक्तम् ॥ विद्वेषिणः पुमपत्यराहित्याय “अग्ने जातान्" इत्यनया अश्वतरीमूत्रं पाषाणेन संघृष्य अभिमन्य ओदनेन सह विद्वेषिण्यै प्रयच्छेत् || तथा तस्मिन्नेव कर्मणि अनया अश्वतरीमूत्रं पाषाणाभ्यां संघृष्य अ- भिमन्य तस्या अलंकारान् आलिम्पेत् ॥ तथा तस्मिन्नेव कर्मणि अनया विद्वेषिण्याः सीमन्तम् ईक्षेत ॥ विद्वेषिण्या वन्ध्याकरणकर्मणि "प्रान्यान्" इति तृचेन पूर्वमन्त्रोक्ता- नि कर्माणि कुर्यात् ॥ - सूत्रितं हि । " असे जातान [१] इति न वीरं जनयेत् मान्यान्[७.